हंससन्देशः ४८

नित्यावासं वृषभमचलं सुन्दराख्यस्य विष्णोः प्रत्यासीदन्‌ सपदि विनमद्भागधेयं नतस्स्याः। यस्योत्सङ्गे बलिविजयिनस्तस्य मञ्जीरवान्तं पाथो दिव्यं पशुपतिजटास्पर्शशून्यं विभाति।। रामचन्द्रः पाण्ड्यदेशेषु वृषभाचलः, तत्र वरदस्य विष्णोः स्थानं, तस्मिन्‌ नूपुरगङ्गेति प्रसिद्धं पुण्यतीर्थं च वर्तन्ते इति हंसं सूचयति। ‘‘हे राजहंसं ! पुरो गच्छता त्वया वृषभाख्यं पर्वतः संदृश्यते। तस्मिन्‌ महाविष्णोः सुन्दरबाहुरिति ख्यातस्य दिव्यं मन्दिरं चकास्ति। तत्र च स्वस्य सान्निध्येन दयार्द्रहृदयः भगवान्‌ ‘भक्तानां शरणंगतानां सर्वाभीष्टफलप्रदो भवामि’ इति संकल्पपूर्वकं निवसति। तत्र गच्छतां नमस्कुर्वताम्‌ आस्तिकानां स भागधेयमेवेत्यत्र न काचिदपि संशीतिः। तथाविधस्य वृषभपर्वतस्य शिखरप्रदेशे गङ्गाजलसमानं दिव्यं पाथः दृग्गोचरं भवति। त्रिविक्रमस्य नू पुरालंकृते पादे ब्रह्मलोकं गच्छति पितामहः विनीतः श्रद्धया पदं तत्‌ कमण्डलूदकेन प्राक्षालयत्‌। तत्‌ जलमस्य पर्वतस्य शिखरे न्यपतत्‌। नू पुरसंबन्धेन पूतं तत्‌ जलं नू पुरगङ्गा इत्यभिधानेनैव समाह्वयन्ति। एतत्‌ जलं पशुपतेः कैलासनाथस्य जटानां सम्बन्धरहितं सत्‌ शोभते प्रदेशं तं गत्वा नू पुरगङ्गायां स्नात्वा पूतस्सन्‌ सुन्दरबाहोः भगवतः सन्दर्शनेन कृतार्थो भव’’ इति। कविः श्री वेङ्कटनाथः नू पुरगङ्गायाः महिमानं वर्णयितुकामः गङ्गा विष्णुवामपदांगुष्ठनखाद्विनिः सृता। दर्शनात्‌ स्पर्शनात्‌ पानात्‌ नाम्नः संकीर्तनाच्च पुरुषान्‌ पुनातीत्यत्र न संशयः। दिवि सुरैः सेवितायां तस्यां भूमिमवतरन्त्यां महाभागवतेन पशुपतिना प्रथममेव सा जटासु धारिता सती तत्रैव बहून्‌ संवत्सरान्‌ व्यतीयाय। पुनश्च भगीरथप्रार्थनामादृत्य भूमिं गता । एवा नू पुरगङ्गा तु अन्तरायं विना साक्षाद्भुवं समागता इति तस्याः प्राशस्त्यवर्णनं मनसि विचिन्त्य न हि निन्दा न्यायं प्रकाशयन्‌ निपुणं निरूपयति ।

No Comments to “हंससन्देशः ४८”

add a comment.

Leave a Reply

You must be logged in to post a comment.