रेलयानमार्गे दुर्घटनाः

रेलयानानि वेगेन चलन्ति। तन्मार्गेऽन्यद्‌ यानं यदि आगच्छति, तर्हि दुर्घटनानिवार्या भवति। भारतवर्षे प्रतिवर्षं बह्व्यो दुर्घटनास्तादृश्यो भवन्ति। बहवो जना म्रियन्ते एतासु दुर्घटनासु। सर्वासु पत्रिकासु पुनः पुनः विज्ञापना प्रकाश्यते रेलमार्गतरणवेलायां जागरूकता अपेक्षिता, तत्र प्रमादो मृत्युम्‌ आवहेदिति। तथापि जनाः, विशेषतो वाहनचालकाः, अनवधानेन मृत्युम्‌ आह्वयन्ति। सर्वत्र द्वारपालकान्‌ नियुक्तान्‌ कर्तुं महान्‌ धनराशिरपेक्ष्यते। तदर्थं रेलप्रयाणशुल्कं द्विगुणीकर्तव्यं स्यात्‌। एवं स्थिते रेलयानानां धावनवेगम्‌ अधिकीकर्तुम्‌ अपि चिन्तना प्रस्तूयते। तदा नानाविधानां दुर्घटनानां भूयस्त्वम्‌ एव स्यात्‌। चीनदेशे जपानदेशे वा अतिवेगानि रेलयानानि सन्तीति सत्यम्‌। किन्तु तत्र तदर्थमेव रेलमार्गाः निर्मिताः। अस्माकं देशे मार्गाणां तादृशी दृढता नास्ति। मार्गेषु वक्रताः सन्ति। तत्र तदर्थमेव रेलमार्गाः निर्मिताः। अस्माकं देशे मार्गाणां तादृशी दृढता नास्ति। मार्गेषु वक्रताः सन्ति। तत्र ऋजुत्वम्‌ आनेतुम्‌ अपि भूरि धनम्‌ अपेक्ष्यते। अतो वेगवद्रेलयान प्रयाणम्‌ अत्र गगनकुसुमायते। इदानीं रचिता वेलापत्रिका यदि भृशम्‌ अनुस्रियते, तर्हि वयं तृप्यामः। तत्र विलम्बस्य कारणानि अपाक्रियन्ताम्‌, अपघातानां सम्भवो निवार्यताम्‌ इत्येवास्माकं प्रार्थना। जनाश्च सदा जागरूकाः रेलयानम्‌ आरोहेयुः, तस्मादवतरेयुश्च। सर्वदा रेलमार्गाणां सुरक्षायै सर्वकारेण विशेषदलं रचनीयम्‌। देशद्रोहिणो मावोवादिनश्च रेलमार्गान्‌ श्वसयितुं सदा यतन्ते। तेषां निग्रहणाय आद्यता देया । यदि एकं वर्षं रेलयानदुर्घटना कापि न भविष्यति, तर्हि उत्सव आचरणीयः।

No Comments to “रेलयानमार्गे दुर्घटनाः”

add a comment.

Leave a Reply

You must be logged in to post a comment.