महाराष्ट ́राज्ये शिवसेनाभाजपसंयुक्तः सर्वकारः

मुम्बयिमहाराष्ट ́राज्ये भारतीय जनतापक्षशिवसेनापक्षयोःसंयुक्त सर्वकारः स्थापितोऽभूत्‌। शिवसेना पक्षस्य प्रमुखनेतारः स्व मनोनिर्वेदान्‌ दूरीकृत्य भारतीय जनतापक्षेण सह पुनः मैत्रीं कतुमूरी कृतवन्तः। अस्य फलमेव महाराष्ट ́ राज्ये उभयपक्षयोः संयुक्तसर्वकार स्थापनम्‌। महाराष्ट ́राज्यस्य राजधान्यां मुम्बय्यां राजभवने शिवसेनापक्षस्य दश विधानसभा सदस्याः सचिवाः भारतीयजनता पक्षस्य दश जनाश्च सचिवाः समभूवन्‌। १५ वर्षेभ्यः अनन्तरं महाराष्ट ́े भारतीयजनतापक्ष शिव सेनापक्षयोः संयुक्तमैत्रीसर्वकारः स्थापितोऽभूत्‌। विधानसभा महाराष्ट ́राज्ये शिवसेनाभाजपसंयुक्तः सर्वकारः निर्वाचनानन्तरं उभयपक्षयोः नेतारः स्थानसंख्याविषये विमुखास्सन्तः २५ वर्षाणां मैत्रीं विभज्य दूरंगताः। मुख्यमन्त्री श्री देवेन्द्रफड्‌नवीस्‌ विधानसभायां विश्वासमतानि याचितवान्‌। शिव सेनापक्षसदस्याः भाजपं नैव समर्थितवन्तः। एन्‌सिपिपक्ष सदस्याः तटस्थाः आसन्‌। एतेन मुख्यमन्त्री विश्वासमतानि जितवान्‌। किन्तु पुनः उभयपक्षयोः नेतारः नेपथ्ये मिथः चर्चित्वा उभयपक्षमैत्रीं पुनः साधितवन्तः। एतस्य फलमेव मैत्रीसर्वकार स्थापनम्‌। महाराष्ट ́राज्यपालः नूतनसचिवेभ्यः प्रतिज्ञावचनानि उपदिदेश।

One Comment to “महाराष्ट ́राज्ये शिवसेनाभाजपसंयुक्तः सर्वकारः”

  1. FARHAN akhtar says:

    Post latest news

Leave a Reply

You must be logged in to post a comment.