हंससन्देश: – ४७

स्नस्तापीडं प्रचलदलकं व्यक्तताटङ्करत्नं
मुक्ताचूर्णस्फुरिततिलकं वक्त्रमुत्तानयन्त्य:।
देशे तस्मिन्‌ कुवलयदृशो जातकौतूहलास्त्वां
मालादीर्घैर्मधुरविरुतं मानयिष्यन्त्यपाङ्गै:।।
रामचन्द्र विपिनस्य महत: क्रमणस्यानुपदमेव पाण्ड्यान्‌
प्रविशता त्वया कुतूहलेन पश्यन्त्य: योषित: संदृश्यन्ते। ता तव स्वागतं
ब्रुवन्ति इति हंसं विवृणोति। ‘‘हे राजहंस ! पाण्ड्यप्रदेशस्योपरि
डयनावसरे त्वया अवश्यं तव: श्रुतिमनोहर: ध्वनि: प्रकाशनीय।: तत्रत्या
युवतय तव मधुरनिनादं श्रुत्वा संतुष्टा भवन्ति। तव स्वागतं ब्रुवन्ति।
नभसि त्वयि डयमाने कुतूहलाधिक्येन शिरांसि उत्तानयन्त्य: विश्लथा:
अपि कबरीषु धृता पुष्पमाला ज्ञातुं न यतन्ते । अलका: प्रचलन्त्य अपि
ता प्रसाधयितुं नेच्छन्ति। तासु त्वां पश्यन्तीषु तासां कर्णाभरणानि
देदीष्यमानानि त्वया संदृश्यन्ते। भ्राजमानानि तिलकानि तासां
वदनारविन्देषु प्रकाशन्ते। अपूर्वमागतं त्वां श्रुतिमनोहरध्वनियुतं
कटाक्षविशेषेणैव स्वागतं ब्रुवन्त्य, तव सुखागमनं हृद्यं यथा तथा
सूचयन्ति। धृतानां कुवलयकुसुममालानां सुगन्धेन तव मन
आकर्षयन्ति। तव दर्शने कुतूहल युतानां तासां मनस तृप्तिमुद्दिश्य त्वया
अवश्यं तव सुमधुरो ध्वनि प्रकाशितो भवेत्‌। ताभिश्च त्वं सम्पूजितो
भूया’’ इति। कवि श्री वेङ्कटनाथ पाण्ड्येषु कुवलयदृश: मुग्धा:,
अपूर्वे दृष्टे कुतूहलनिवारणे असमर्था:, भ्राजमानानामाभरणानाममूल्यानां
धारिण्य, अतिथिसत्कारकरणे चतुरा: इति प्रतिपादयति। अपि च
जनकतनयातुष्टिसंपादनाय गच्छन्तं त्वां कुवलयदृश: कटाक्षप्रसरणेनैव
प्रोत्साहयन्त्य त्वां महानायकं भावयित्वा मानयिष्यन्ति’ इति निपुणतरं,
वाचकमनउल्लासं च यथा तथा वर्णयति।

No Comments to “हंससन्देश: – ४७”

add a comment.

Leave a Reply

You must be logged in to post a comment.