गीतोपदेशो युद्धरङ्गे कस्मात्‌ कृत:?

भगवद्‌गीता सर्वासाम्‌ उपनिषदां सारं बोधयतीति विद्वांसो
वदन्ति। उपनिषदो गुरुकुलेषु ऋष्याश्रमेषु प्रशान्तप्रदेशेषु वा
आविर्भूता:। तासां सारत्वेन परिगण्यमाना भगवद्‌गीता कस्मात्‌
सङ्ग्रामाङ्गणे समुपदिष्टा ? तत्रत्या योधा: शङ्खान्‌ धमन्ति स्म। धनूंषि
बाणान्‌ खङ्गान्‌ अन्यान्यायुधानि च धारयन्तो युद्धाय सिद्धा आसन्‌।
तादृशे सन्दर्भे अध्यात्मोपदेश कथं संजाघटीति? पूजार्है: गुरुभि:
सह, प्रीतिपात्रैर्मित्रै: सह कथं योत्स्ये इति शस्त्रसंन्यासं कृतवन्तम्‌
अर्जुनं युद्धे प्रेरयितुं ज्ञानयोगस्य भक्तियोगस्य राजयोगस्य वा
उपदेश: कथम्‌ उपकरोति? कर्मयोगस्यैकस्यैव उपदेशस्तात्रापेक्षित:
खलु? यदा श्रीकृष्णो योगारहस्यम्‌ अर्जुनम्‌ उद्दिश्य बोधयति स्म,
तदा युद्धसन्नद्धा: अन्ये कुरुवीरा: किं कुर्वन्ति स्म ? श्रीकृष्णेनार्जुनाय
प्रदर्शितं विश्वरूपं भीष्मद्रोणादयो ददृशुर्न वा ? यदि तद्रूपं श्रीकृष्ण:
सर्वेभ्य प्रादर्शयिष्यत्‌, तर्हि सर्वे युद्धाद्‌ व्यरंस्यन्‌ खलु ?
कस्मात्तथा न कृतवान्‌ भगवान्‌? इत्यादय: प्रश्ना: सामान्यानां जनानां
मनस्सु उद्‌भवन्ति ।
श्रोतु: शुश्रूषा यदा भवति, तदोपदेश: कर्तव्य:। अन्यदा
क्रियमाणम्‌ उपदेशं न श्ण्वाृन्ति जना:। पार्थस्य जिज्ञासा जाता।
तदुपशमनायोपदेशस्तत्रैव कृत:। अर्जुनं निमित्तीकृत्य
सकलमानवकुलं बोधितम्‌। अत: कर्मयोगेन सहान्ये योगा अपि
बोधिता। श्रीकृष्णेन दत्तं दिव्यं चक्षुरर्जुनस्यैवासीत्‌। स विश्वरूपं
ददर्श । नान्ये तद्‌ ददृशु:। भगवता सर्वं क्षणमात्रे उपदिष्टम्‌।
अतोऽन्यै: प्रतिपालनं न कर्तव्यम्‌ आसीदिति भाति।

No Comments to “गीतोपदेशो युद्धरङ्गे कस्मात्‌ कृत:?”

add a comment.

Leave a Reply

You must be logged in to post a comment.