लघुहास्यम्‌ : धनाशा

कस्यचित्‌ तटाकस्य तीरप्रदेशे सञ्चारतो मित्रयो प्रकटनफलकमेकमदृश्यत। तस्मिन्नेवमालिखितम्‌ ‘ अस्मिन्‌ तडागे निमज्जनं नरं कश्चिदुद्धरति चेत्‌ तस्य रूप्यकपञ्चाकस्य पारितोषिकं दीयते। यदि कश्चित्‌ अत्र मृतस्य शवमुद्धरति चेत्‌ तस्य रूप्यकपञ्चाकस्य पारितोषिकं दीयते। यदि कश्चित्‌ अत्र मृतस्य शवमुद्धरति चेत्‌ तस्य दशरूप्यकाणि दीयन्ते इति । एतद्वाचयित्वा मित्रयो धनार्जनाशा संजाता। तत्रैक जले विगाह्य म्रियमाण इव नटित्वा ‘भो त्रायस्व, त्रायस्व’ इति चुक्रोश। द्वितीयस्तु शान्त एव भूत्वा फलकस्य द्वितीयं भागमङ्गुल्या निर्दिश्य तूष्णीं स्थित।

— संग्रहक एस्‌ वि स्‌

No Comments to “लघुहास्यम्‌ : धनाशा”

add a comment.

Leave a Reply

You must be logged in to post a comment.