भारते अनेकत्र दुराक्रमणानि कर्तुं उग्राततायिन सन्नद्धा

नवदिल्लीसिमिसङ्घटनाया पञ्चा उग्रा आततायिन मध्यप्रदेशस्य बन्धनागारात्‌ पलायितास्सन्त कर्णाटकमहाराष्ट ́राजस्तानादि राज्येषु भयोत्पादनकृत्यानि दुराक्रमणानि च कर्तुं सन्नद्धा इति गुप्तचरविभागस्य गुप्तचर रहसि विषयमिमं उक्तवन्त रक्षणाकार्येषु जागरूका भवेयुदिति प्रबोधयासुश्च मोहम्मद्‌ अजरुद्दीन्‌ मोहम्मद्‌ अस्लाम्‌ अम्जद्‌खान्‌ झाकिर्‌हुसेन्‌ हुसेन्‌सादिख्‌ मेहबूब्‌ गुड्डु नामका एते उग्रा आततायिन भारते विध्वंसककृत्यानि यूयं करिष्यथ इति पाकिस्तानगुप्तचरसंस्था ऐएस्‌ऐ निर्देशयामास इति गुप्तचर विभागचरा रहस्यविषयं अवदन्‌ बन्धनागारात्‌ पलायितेषु आततायिषु द्वौ उग्रौ कर्णाटकराज्ये एव आसन्निति वार्ता ज्ञाता। मध्य प्रदेशबन्धनागारात्‌ पलायिता उग्रा आततायिन तेलङ्गाण उत्तरप्रदेशकर्णाटकमहाराष्ट ́ राजस्तानतमिळुनाडुराज्येषु रहसि विलीना। एते रहस्येव गुप्त कार्याणि कुर्वन्तआक्रमण कुकृत्यानि कर्तुं कारयितुं च सन्नद्धास्सन्तीति किंवदन्ती गुप्तचरै ज्ञाता। अत अधुना सर्वत्र रक्षणा कार्येषु रक्षिभटा नियोजितास्सन्ति।

No Comments to “भारते अनेकत्र दुराक्रमणानि कर्तुं उग्राततायिन सन्नद्धा”

add a comment.

Leave a Reply

You must be logged in to post a comment.