कथा – वृक्षारोपणम्‌

लेखककतिभ्य दिनेभ्य भवान्‌ एवं बीजानि आरोपयन्नस्ति ?
अविपाल (किञ्चािद्‌ विचिन्त्य) हुँ, प्रायश वर्षत्रयम्‌ अभवत्‌, प्रतिदिनं मे
एतद्‌, वृक्षारोपणकार्यं प्रवर्तमानम्‌ अस्ति।
लेखक एतावत्‌ पर्यन्तं कति वृक्षा आरोपिता स्यु ?
अविपाल  वृक्षाणां लक्षं तुस्यादेव।
लेखक किं सर्वे आरोपिता वृक्षा जीविता वर्धिताश्च ?
अविपालनैव। लक्षस्य मध्ये प्रायश विंशतिसहस्रं वृक्षा जीवन्ति वर्धन्ते च।
अर्धं तु मूषकादिभि नाश्यन्ते। केचन अकल्पितदैवाभिप्रायेण
विनश्यन्ति। किन्तु महत्या आश्वस्ते अयं विषयो यत्‌ यत्र पूर्वम्‌
एकोऽपि वृक्ष नासीत्‌, तत्र इदानीं दशसहस्रं ‘षेन्‌’ वृक्षा वृद्धिम्‌
आप्नुवन्ति, अचिरादेव पूर्णवृद्धिम्‌ अवाप्स्यन्ति।
लेखक (स्वगतं) एतस्य नामैव मया न पृष्टम्‌। (प्रकाशम्‌) भवत किं नाम ?
अविपाल  एल्जेअर्बुफ्येनामाहम्‌। पूर्वमहम्‌ उपत्यकासु क्षेत्रपतिरासम्‌।
एक एव पुत्र कालेन कवलीकृत, पत्नी च दिवं गता। तत अमुं
निर्जनदेशम्‌ आगत। तदा वृक्षहीनोऽयं देश मरणं न प्राप्नुयादिति मे
विचार आगत। अत एतत्‌ कार्यं प्रारब्धम्‌।
लेखक किं भवत आयु ?
अविपाल  पञ्चापञ्चााशत्‌।
लेखक इत त्रिंशद्वत्सराणाम्‌ अनन्तरम्‌ एते ‘षेन्‌’ वृक्षा अतिशोभना
भविष्यन्ति।
अविपाल यदि परमेश्वरो मां दीर्घायुषं करोति तर्हि त्रिंशद्वर्षाणाम्‌ अनन्तरं
तावतो वृक्षान्‌ आरोपयिष्यामि यावद्‌ अन्तत एतद्‌ दशसहस्रं वृक्षा
तेषां पुरत समुद्रे जलबिन्दुरिव भविष्यन्ति।
मध्यविरति
१९१४  १९१९
लेखक अहो करालं विश्वयुद्धं समाहितम्‌। पञ्चा वर्षाणि युद्धाय स्वाहा
अभवन्‌। इदानीं शुद्धवातासेवनम्‌ अपेक्ष्यते। (स्मृत्वा) अहो ! कथं वा
स्यात्‌ स अविपाल ? मया तु तस्य प्रसङ्ग एव विस्मृत। किं स
इदानीमपि जीवति ? किं स अद्यापि वृक्षान्‌ आरोपयति ? (परिभ्रम्य)
अहो ! चतुर्षु दिक्षु वृक्षाणां घनत्वात्‌ कीदृशं कम्बलसदृशं धूममेघयितं
रूपं पश्यामि। ते एते ‘षेन्‌’ वृक्षा सावकाशं संबर्धिता। स एष
एल्जेअर्बुफ्ये इदानीमपि वृक्षारोपणे तत्पर। (पार्श्वं गत्वा) सुप्रभातम्‌।

 

Read more

Tags:

No Comments to “कथा – वृक्षारोपणम्‌”

add a comment.

Leave a Reply

You must be logged in to post a comment.