हंससन्देश ४६

चोराक्रान्तं तदनु विपिनं चोळपाण्ड्यान्तरस्थं झिल्लीनादश्रवणपरुषं शीघ्रमेव व्यतीया ।

तीर्णे तस्मिन्प्रकटय सखे शीतलांस्ते निनादान्‌ शब्दायन्ते न खलु कवय सन्निधौ दुर्जनानाम्‌ ।।

रामचन्द्र जगन्नायक वात्सल्यातिशयात्‌ निदेशे स्थितं हंसं त्वं पाण्ड्यदेशप्रवेशात्पूर्वं घोरमरण्य चोरैर्युतं द्रक्ष्यसि। अत जागरूकतया गच्छे’’ इति तं सखे इति सम्बोधनेन अभिमुखं कृत्वा सूचयति। ‘‘हे ! प्रियसख राजहंस ! श्रीरङ्गधाम्न सन्दर्शनेन पुरो गच्छन्‌ त्वं पाण्ड्यान्‌ प्रविशे । चोळपांड्यदेशयोर्मध्ये महत्‌ विपिनं वर्तते। तत्र दस्यव बहव सन्ति। परिसरेषु गच्छता त्वया विपिने वर्तमानानां घिल्लीनां नाद श्रवणपरुषं सत्‌ त्वां वनं समागतं जागरयति। तत्र विलम्ब त्वया नैव कार्य । यावती ते शक्ति, तां पूर्णामुपयुज्य मौनेन तत्र धावे। वनस्य संबन्धे चातिक्रान्ते तव श्रवणमनोहरं सर्वप्रापञ्चािकवनस्य चिन्तापहरणसमर्थं शीतलं नादं प्रकटय। तव नीवृत्सु श्रुतिमनोहरध्वनि विपिनभागे तस्मिन्‌ तवैव प्राणान्तकरीति पुनर्नैव वक्तव्यं ननु। अवसरेऽस्मिन्‌ ख्यातां लोकोक्तिं ब्रवीमि ‘‘ भङ्ग्यन्तरेण विषयवैविध्येन च भूतभविष्यद्वर्तमानानां सर्वेषां सूचयितार कवय दुर्जनानां सान्निध्ये मूका इव तिष्ठन्ति । शब्दमपि न कुर्वन्ति  काकोलेष्विव कोकिल’ इति। भगवत श्रीरङ्गधाम्न सन्दर्शनेन जातं विपुलं हर्षं मनस्येव निरुध्य वनं घोरं व्यतिक्रामे’’ इति। कवि श्री वेङ्कटनाथ यस्य कस्यापि मनुजस्यातीव सुखसन्तोपस्यानु भवानन्तरं तस्य मनस्येव निरोध कार्य। आत्मना अनुभूयमानस्य सन्तोषस्यासहिष्णव बहव। ते विपिने दस्यव इव भयंकरा । तादृशानां सन्निधौ मौनमेव वरम्‌। उत्कर्षस्यान्यस्यासहिष्णुभि मात्सर्यातिशयेन विपत्परम्परा सहजा’’ इति सोदाहरणं प्रकारान्तरेण सूचयति।

No Comments to “हंससन्देश ४६”

add a comment.

Leave a Reply

You must be logged in to post a comment.