हंससन्देश ४५

सत्त्वे दिव्ये स्वयमुदयतस्तस्य धाम्न प्रसङ्गात्‌ मञ्जूषायां मरकतमिव भ्राजमानं तदन्त।

चेतो धावत्युपहितभुजं शेषभोगे शयानं दीर्घापाङ्गं जलधितनयाजीवितं देवमाद्यम्‌ ।।

रामचन्द्र श्रीरङ्गं महद्धाम दिव्यविमानाकारेण तपत ब्रह्मण पुरत क्षीरसागरात्‌ स्वयं व्यक्तमभवत्‌। तदेव दिव्यधाम अनन्तपीठे प्रतिष्ठाप्यते’’ इति सारणेन साकेतनगरमध्युपिषतं शेषशायिनं, हंसं समुद्धिश्य विवृणोति। ‘हे राजहंस ! तत्‌ दिव्यं श्रीरङ्गधाम शुद्धसत्वेन विराजिते, नित्यविभूतियुतै पुरुषै अधिष्ठिते क्षीरसागरे स्वयमेव प्रादुर्भूतमिति मया पूर्वमेव सूचितम्‌। तस्य श्रीरङ्गधाम्न विमान विषयमधिकृत्य प्रोक्तत्वात्‌ सावधानेन शृणु। तस्य विमानस्यान्त दिव्यं रत्नं चकास्ति। तत्‌ उपमारहितम्‌। तथापि तस्य महद्रूपं तव धिषणागोचरं भूयात्‌ इति सूचयामि। अमूल्यायां पेटिकायां संरक्षितं प्रकाशमानं गारुत्मतं रत्नमिव तत्‌ वर्तते। अपि च विमानस्यान्त भगवत सेवायामेव तत्पर शेष। मृदुस्पर्शादिसर्वविधै भगवत कैंकर्ये एव दत्तशरीरस्य शेषस्योपरि स्वस्य भुजमेवोपधानीकृत्य शयान अरविन्दलोचन रङ्गनाथ। तस्य पार्श्वे क्षीरसागरे एव दृष्टिगोचरं गता अमेयया दयया भक्तजनसंरक्षणकुतूहलिनी जगन्माता। तथाविध जगद्वल्लभ निरर्गल कटाक्षै शोभमान आर्तत्राणपरायण स्वसन्निध्येन स्मृत्यनुपदमेव ध्यातु स्मृतिपथं अधिरोहति। तत्‌ साकेतनगरे इक्ष्वाकुवंशजै आराधितस्य श्रीरङ्गधाम्न शेषपीठं त्वया अवश्यं भजनीयम्‌’’ इति। कवि श्री वेङ्कटनाथ प्रासङ्गिकेन श्रीरङ्गधाम्न कथनं मनसिकृत्य भगवति परवासु देवे जलधितनयाजीवितमिति लक्षणस्यारोपणेन तयो अन्योन्यत्वं प्रकाशयति। अपि च भविष्यति भगवत नित्यसान्निध्यं तत्र मनसि विचिन्त्य साकेतनगरस्थं कुलधनं करिष्यमाणस्य महत कार्यस्य सुकरत्वया संस्मरिष्यतीति, तथा स्वस्यापि जलधितनया जीवितमिव जनकतनयाधीन जीवितमिति प्रकारान्तरेण हृदयङ्गमं वर्णयति।

हंससन्देश ४६

No Comments to “हंससन्देश ४५”

add a comment.

Leave a Reply

You must be logged in to post a comment.