हंससन्देश ४४

तीरे तस्या विरचितपदं साधुभिस्सेव्यमानं

श्रद्धायोगाद्विनमिततनुश्शेषपीठं भजेथा ।

यस्मिन्नस्मत्कुलधनतया सौम्य साकेतभाज

स्थानं भाव्यं मुनिभिरुदितं श्रीमतो रङ्गधाम्न।।

रामचन्द्र पुष्करिण्या रोधसि अनन्तपीठं विराजते। भविष्यति श्रीरङ्गधाम्न निवासमत्रेति संसूच्य प्रदेशं तं सेवेषा इति हंसं सूचयति। ‘‘हे राजहंस ! चन्द्र पुष्करिण्या तीरे शेषपीठं त्वया संदृश्यते। पीठं तत्‌ साधुभि भगवद्भक्तै सेव्यमानम्‌। तत्र शीघ्रमेव साकेतनगरे इक्ष्वाकुवंशजै अर्चितं श्रीरङ्गधाम प्रतिष्ठापनीयं भविष्यति। भगवान्‌ स्वयमेव पृच्छन्तमादित्य मदोचत्‌ ‘‘सूर्यवंशजा श्रीरङ्गधामाभिधं मामर्चिष्यन्ति। कावेर्यास्तीरे चाचिरादेव मानवैरर्चितो भविष्यामि’’ इति। अनन्तपीठं तत्‌ गत्वा विनीतस्सन्‌ श्रद्धया परयोपित भजेथा। त्रिकालज्ञा मुनय ‘‘एतत्‌ अनन्तपीठक्षेत्रं इक्ष्वाकूणां कुलधनेन श्रीरङ्गधाम्ना भूषितं भवति। सस्यादिफलसमूद्धियुत एष एव प्रदेश तस्य स्थानं भवितुमर्हति’’ इति कथितवन्त। तत्र त्वं गत्वा तं सेवेथा’’ इति। कवि श्रीवेङ्कटनाथ ‘‘हंसं सौम्येति सम्बोधनेन औदासीन्यं विना सावधानेन भक्तिनम्रं यथा तथा सेव्यमिति सान्त्वन वचनैराश्वासयति। भविष्यति इक्ष्वाकूणां कुलधनं विभीषणाय दीयते। स तत्‌ तत्र प्रतिष्ठापयिष्यति इति प्रकारान्तरेण सूचयति। अपि च भविष्यति रावणसहोदय विभीषण तस्य कैंकर्यं करिष्यति। तेन च प्रीत स आत्मन कुलधनमेव प्रयच्छति। प्रदेशस्यास्य रामणीयकेन अत्रत्य समृद्ध्या च संतुष्ट विभीषण तत्रैव श्रीरङ्गधाम प्रतिष्ठापयिष्यति इति भविष्यत वृत्तान्तस्य कथनं निपुणं निरूपयति।

हंससन्देश ४५

No Comments to “हंससन्देश ४४”

add a comment.

Leave a Reply

You must be logged in to post a comment.