हंससन्देश ४३

तस्मिन्‌ द्रक्ष्यस्यमरमहिलामौलिगन्धैरवन्ध्याम्‌ आतन्वानां व्यपगतरसं मानसे मानसं व।

तीर्थैरन्यैरपि परिगतां शुद्धिहेतोस्समन्तात्‌ चन्द्रोल्लासप्रथितयशसस्सम्पदं पुष्करिण्या।।

रामचन्द्र चोळदेशस्य महत्सौभाग्यमिव प्रवहन्त्याकावेर्या नद्या निकटे वर्तमानां चन्द्रपुष्करिणीं वर्णयति। हे! राजहंस! जनपदेऽस्मिन्‌ कावेर्यास्तीरे चन्द्रपुष्करिणीत्यभिध तटका वर्तते। तत्र देवाङ्गना स्नातुमहमहमिकया आगच्छन्ति। तासां देवस्त्रीणां कवरीषु धृतानि पुष्पाणि स्वेषां सौरभै अनवरतं प्रदेशं तं सुगन्धयति। हंस ! युष्माकं वास मानसे इति विदितप्रायमेव। ब्रह्मणा मनसाविनिर्मिते नैर्मल्यशैतल्यसौरभ्यादिभिर्युते मानससरोवरे यादृशी संतृप्ति भवता अनुभूता, तादृशी तृप्तिरेव अस्या पुष्करिण्या त्वया अनुभूयते। मानस सरोवरादत्रागतस्य तव समानानुराग यत्नत समुपकल्पितो वा इति च भासते। अस्य चन्द्रपुष्करिणीतीर्थस्य समन्तात्‌ अन्यानि भवतापनिर्र्मूलन समर्थानि तीर्थानि च शोभन्ते यत्र मुनय विगतकल्मषा भूत्वा भगवत अनुग्रहपात्राणि बभूवु। अपि चैषा पुष्करिणी चन्द्रस्योल्लासकारिणीति च प्रथिता यत अत्र चन्द्रस्य राजयक्ष्माख्यरोगस्य निवारणेन तृप्तिरजनि। सन्दर्भेऽस्मिन्‌ प्रथितां तां कथां शृणु ‘‘दक्षस्य सप्तविंशतिकन्या चन्द उपयेमे। तासु स रोहिण्यामेवातीवानुरक्त आसीत्‌। ता अन्या पितरं दक्षं गत्वा चन्द्रस्य व्यतिक्रमं प्रोचु। दक्षस्तं क्षयं याहीति शशाप। चन्द्र भूमौ सर्वत्र सञ्चारन्‌ क्षेत्रेऽस्मिन्‌ नीरोगोऽभवत्‌। तदारभ्य एषा चन्द्रपुष्करिणीति ख्याता सती देवानामप्युल्लासकरी संजाता। तस्या समीपं गच्छता त्वया सर्वमपि प्रत्यक्षं दर्शनीयं भवतीत्यत्र न मे संशीति। तस्यां चन्द्रपुष्करिण्यां स्नात्वा तृप्तमना भव’’ इति। कवि श्री वेङ्कटनाथ मानससरोभिमानिन हंसस्य मानसवद्वर्तमानां पुष्करिणीं विवृण्वन्‌ तस्य मनस तृप्ति अनेन समुत्पद्यते इति भावयति। अपि च महत्या रुजा पीडितस्य चन्द्रस्यापि नीरोगकरणसमर्थे सत्येतस्मिन्‌ तीर्थे, का कथा मानवानामिति भङ्ग्यन्तरेण मनोहरं वर्णयति।

No Comments to “हंससन्देश ४३”

add a comment.

Leave a Reply

You must be logged in to post a comment.