लघुकथा – स्वस्थाने आत्मन्‌ एव श्रेष्ठ

एकदा लक्ष्मी सरस्वत्यो मध्ये का श्रेष्ठा इति प्रश्न प्रादुरभूत्‌। उभे स्वस्या स्वस्या श्रेष्ठतां ज्ञातुं भूलोके प्राप्तवत्यौ। ते उभे कश्चित्‌ केदारे आगतवतौ। ‘‘पश्य सरस्वती ! अहं एवं कर्षकं मम महिमया बृहत्‌ श्रीमन्तं करोमि’’ इत्युक्त्वा तस्य संमुखे अनेक रत्न शिला खण्डानि वर्षितवतीलक्ष्मी तदा मम अनुग्रहं विना तत्‌ असाध्यम्‌’’ इत्युक्त्वा सरस्वती तस्य कर्षकस्य विवेचना शक्तिं अपसारितवती। कर्षक केदारं कर्षण समये पतितानि रत्न खण्डानि दृष्ट‰ा अपि विवेक शून्येन न अभिज्ञातवान्‌। किमर्थं चेत्‌ तस्य बुद्धि शक्तिं शून्यं कृतवती सरस्वती। तदा केचन वर्तका तस्मिन्‌ मार्गे आगच्छत, पुरत एव पतितानि अमूल्य रत्नानि दृष्ट‰ा, क्षेत्रे कर्षते कृषकाय तेषां मौल्यं न जानाति स्म तदपि वर्तका ज्ञातवन्त। हे कर्षक ! पश्य एतानि अश्म खण्डानि हलाय घट्टति चेत्‌ हल भग्नो भवेत्‌। अत वयं एतानि नयाम इत्यवदन्‌ वर्तका। ‘‘बहुसमीचीनम्‌’’ इत्युत्तरितवान्‌ कर्षक। तदा सरस्वती ‘‘इदानीं अहं तस्मै विवेचना शक्तिं ददामि’’ इत्युक्त्वा कर्षकं अनुगृहीतवती। क्षेत्रं कर्षत कृषक रत्नमेकं दृष्टवान्‌, तत्‌ अमूल्यम्‌ इत्यपि ज्ञातवान्‌। स तं रत्ं विक्रीय बृहत्‌ श्रीमन्तो भूत्वा सुखेन जीवितवान्‌ ।

One Comment to “लघुकथा – स्वस्थाने आत्मन्‌ एव श्रेष्ठ”

  1. Gk in hindi says:

    बहुत ही सुन्दर प्रसंग है हिन्दी को आगे बढाएँ। hindi samanya gyan

Leave a Reply

You must be logged in to post a comment.