हंससन्देश ३९

स्मिनग्धच्छायं तदनु विततं तस्य धामेव नीलं नीलरक्षानियतललितं काननं संविचीया।

दृष्टे तस्मिन्ननिमिषवधूनित्यनिर्वेशयोग्ये स्वर्गोद्यानश्रियमपि लघुं मंस्यते मानसं ।।

रामचन्द्र श्वेताद्रिसमीपे वर्तमानं हंसं ‘तत्‌वनं नीलीनाम्नी निशाचरी रक्षति। तत्‌ अतीव रमणीयं वर्तते। तत्वं परिचिनुया’ इति तस्य वनस्य रामणीयकं वर्णयति। ‘हे! राजहंस! श्वेताद्रिनाथे पुण्डरीकाक्षे त्वया संदृष्टे समीपे एवातीव गाढया वनतरूणां छाययायुत प्रदेश सन्दृश्यते। तत्रत्या निबिडा छाया भगवत श्यामलवर्णमेवानुकुर्वन्ती भयस्यापनोदनेन मनस सन्तुष्टिं समुत्पादयति। तदेवादिविततं काननं नीलीनाम्न्या राक्षस्या पालितं सत्‌ भगवता निरस्तव्याघ्रासुरभयं रमणीयं वर्तते। तद्वनं त्वं संविचीया। त्वयि तस्य वनस्य सौन्दर्यमनुभवति सति स प्रदेश देवतास्त्रीभिरपि सर्वदा निवासयोग्य इति भावना उत्पत्स्यते। दृष्टमात्रे चैवं सति तत्रैव निवासिनामानन्द अमेय ननु। मर्त्यलोके वर्तमानं उद्यानमेतत्‌ स्वर्गलोके स्थितस्य नन्दनवनस्यापि संपद लघूकरोति। स्वर्गलोकेवर्तमानास्सर्वे विहर्तुमत्रैवागमिष्यन्तीति च विजानासि’’ इति कवि श्री वेङ्कटनाथ ‘‘निबिडै वृक्षै काननं भीकरमवर्तत। तस्मिन्‌ वने व्याघ्रासुर उषित्वा प्रजापीडक आसीत्‌। तं श्वेताद्रीश जघान। नीली राक्षसी तस्यारण्यस्य पालिका भूत्वा मनोहराणां वृक्षाणां फलकुसुमादिभिर्युतानां वर्धनेन तत्‌ रमणीयं चकारेति सूचयत्‌, स्वर्गोद्यानस्यापि सौन्दर्यमद्य तदतिशेते इति हृदयङ्गममस्मिन्‌ पद्ये प्रतिपादयति।

No Comments to “हंससन्देश ३९”

add a comment.

Leave a Reply

You must be logged in to post a comment.