यड्यूरप्पस्य गृहे गवेषणा
बेङ्गळूरुयुगपदेव भूतपूर्वमुख्य मन्त्रिणः श्री यड्यूरप्पस्य गृहे, तत्सम्बन्धिनां गृहेषु कार्यालयेषु च केन्द्रीय गवेषणादलं (उइख) कार्याचरणम् अकरोत् बुधवासरस्य प्रातः काले। बहूनि मुख्यानि आधारपत्राणि गवेषणा दलेन वशीकृतानीति ज्ञायते। यड्यूरप्पस्य पुत्रौ जामाता च आरोपिणः इति प्रथमप्रणिगदनं च न्यायालयाय समर्पितम्। एतस्मिन् सन्दर्भे बन्धनं स्यादिति आशङ्क्य यड्यूरप्पः निरीक्षणाप्रातिभाव्यं लब्धुं प्रयत्नशीलोऽस्ति। किन्तु न्यायाधीशो विरामं स्वीकृतवान् इति हेतोः अष्टादशे दिने (१८५ १२) यड्यूरप्पस्य प्रातिभाव्य प्रार्थना विचारयिष्यते इति वदन्ति।


No Comments to “यड्यूरप्पस्य गृहे गवेषणा”
add a comment.