सन्तोषं जनयेत् प्राज्ञः
येन के न प्रकारेण यस्य क स्यापि देहिनः ।
सन्तोषं जनयेत्प्राज्ञस्तदेवेश्वरपूजनम् ।। इति
प्राचीनं सुभाषितम् । अनेन श्लोके न क थितं युक्तं न वेति
कि ञ्चािन्तनीयम् । येन के न प्रकारेणेत्यस्य कोऽर्थः? उचितेन
अनुचितेन वेत्यभिप्राये श्लोकोक्तं न साधु । मांसाहारप्रदानेन कश्चित्
तुष्यतीति गां हत्वा मांसं ददाति चेत्, किं तदीश्वरपूजनम्? यस्य
क स्यापि देहिनः सन्तोषं जनयेदिति किं साधु? जनहत्यां कुर्वाणः पापी
वर्तते । तस्य सन्तोषं जनयामः चेत् किं तत् ईश्वरपूजायते ? नैवेति वयं
भावयामः । कस्याप्यन्यस्य यातनां विना, हिंसां विना, अनृतं विना
यदि अन्यस्य क स्यापि जीविनः सन्तोषं जनयामः, तदेवेश्वरपूजनम् ।
उचितेन धर्म्येण न्याय्येन मार्गेण सन्तोषो जनयितव्यः । दैवनिन्दया
दुर्जनस्तुष्यति इति दैवनिन्दा न क र्तव्या । स्तुत्या मूर्खो नन्दतीति तस्य
स्तुतिर्न कार्या । एवं हि मौर्ख्यम् अनुवर्तयन् स लोकं दुःखे पातयेत् ।
उत्कोच दानेन क मपि अधिकारिणं वयं सन्तोषयामश्चेत् पापमेव तत् ।
तेन ईश्वराराधनं क थं स्यात्? अतः प्राज्ञेन यस्य क स्यापि सन्तोषणे न
प्रयतनीयम् । प्रज्ञाम् उपयुज्य योग्यया रीत्या अर्हस्य जीविनः सन्तोषं
जनयितुं यत्नो विधेयः ।


No Comments to “सन्तोषं जनयेत् प्राज्ञः”
add a comment.