जलपानाद्‌ वैद्या अपि भीताः

चण्डीगृहम्‌(चण्डीघर्‌)फरीद्‌कोट नगरे विराजते गुरुगोविन्दसिंह वैद्यकीयविद्यालयः । तत्रत्याः द्विशताधिकाः छात्राः, शताधिकाः वैद्याश्च तत्र लभ्यमानं जलं पातुं बिभ्यति । त्रस्ताः ते विद्यालयं परित्यज्य अन्यत्र वसन्ति । विद्यालये लभ्यमानं जलं युरेनियं मिश्रम्‌ । तस्य पानेन अर्बुदरोग उत्पद्यते इति श‘ा वैद्यान्‌ छात्रांश्च बाधते । पञ्जाबराज्ये अर्बुदरोगस्य प्राबल्यं वर्तते । मालवप्रदेशे भूमौ स्थितं जलं विज्ञानिभिः परीक्षितम्‌ । जले युरेनियंप्रभृतीनि विषाणि वर्तन्ते इति कृ तमुखाः प्रतिपादयन्ति तथापि मार्गान्तरं विना जनास्तदेव जलं पिबन्ति । एतद्विषये सर्वकारेण संघटिता समितिरुप जलं परीक्ष्य तस्य हानिजनकत्वं स्पष्टयति । न केवलं जनाः, अपि तु गावः, अन्ये पशवश्च पक्षिणश्च रोगपीडिताः सन्ति विषमिश्रजलस्य पानेन इति समितिर्वदति । एषा परिस्थितिर्देशे सर्वत्र भवति यदि गम्भीरतराः नलिका कूपाः क्रियन्ते । तस्माज्जााग्रत जाग्रत

No Comments to “जलपानाद्‌ वैद्या अपि भीताः”

add a comment.

Leave a Reply





Type the word, enter space and wait for word suggestions. To type in English, press Ctrl+g.