निर्वाचनप्रचारः प्रवर्तते
लक्ष्मणपुरम्उत्तरप्रदेशे सर्वत्र निर्वाचनज्वरः प्रसृतः । निर्वाचन कार्येषु नियुक्ताः सर्वकारस्य उद्योगिनः निर्विघ्नं निर्वाचनं साधयित् उत्सुकाः । आरक्षकाः दुष्टान् दमयितुं, निर्वाचनापराधान् निवारयितुं च दिवानिशं श्राम्यन्ति । राजकीयपक्षाणां नायकाः स्वपक्षस्य स्पर्धिनां विजयाय प्रतिदिनम् अत्र वा तत्र वा भाषणं कुर्वाणाः कण्ठशोषणं कु र्वते । तेषाम् अनुचराः पक्षचिानि ध्वजांश्च वहन्तो घोषणाम् उैः कुर्वन्तो गृहाद् गृहं गच्छन्तो दृश्यन्ते । जनाश्च कस्मै मतं देयम् इति विचार्य विचार्य श्रान्ताः, भाषणानि श्रावं श्रावं भ्रान्ताः, किं वा कार्य् इति चिन्तयाक्रान्ताः, अन्तिमे क्षणे यस्मै कस्मैचित् मतं ददानाः कृतार्था भवन्ति । सर्वोऽयं प्रयासो निरर्थक इति भावयन्तः केचिद् गृहेषु शेरते । कथमपि भवतु । हिंसा देशे मा भूत् । शान्त्या निर्वाचनं प्रवर्तताम् इति वयम् आशास्महे । विजयो यस्य क स्यापि पक्षस्य दलस्य वा भवतु । विजयिनो लोकंन्यायेन पालयन्तु । पराजिताः विजयिनां निन्दां न कुर्वन्तु । जयाजयौ समभावनया स्वीकृ त्य यथावकाशं देशहितं साधयन्तु । भ्रष्टाचारं निवार्य रामराज्यं स्थापयन्तु । भारतदेशं विश्वस्य उत्तमं देशं कुर्वन्तु ।


No Comments to “निर्वाचनप्रचारः प्रवर्तते”
add a comment.