काकतालीयम्‌ – २

अनन्तरदिने प्रातः तौ भोजनं कृत्वा गृहात्‌ निर्गतौ । ‘पुत्री उद्योगाभिमुखौ जातौ’ इति सन्तोषेण पिता आशिषा अनुगृह्य तौ प्रेषितवान्‌ । गृहात्‌ निर्गतौ तौ ग्रामम्‌ अतिक्र म्य गतवन्तौ । किन्चिद्दूरं गमनानन्तरं मार्गपार्श्वे स्थितम्‌ एकम्‌ अश्वत्थवृक्षं दृष्टवन्तौ तौ । ‘पश्यत्‌ भोः! एतत्‌ तु उत्तमं स्थलम्‌ । निद्रार्थं पर्याप्तमात्रेण छाया अपि अस्ति । इतस्ततः अटनेन वृथा पादवेदना एव किल?’ इति उक्तवान्‌ कृष्णः । ‘सत्यं किल? एतत्स्थलं किन्चित्‌ स्वच्छीकृतं चेत्‌ सायंपर्यन्तम्‌ अपि गाढं निद्रां कर्तुं शक्यं स्यात्‌ । स्निग्धा छाया’ इति उक्त वान्‌ रामः । अनन्तरं तौ वृक्षसमीपं गत्वा पतितानि पर्णानि लघुशिलाखण्डान्‌ च दूरे क्षिप्तवन्तौ । महाशिलाः उभौ अपि मिलित्वा दूरं नीतवन्तौ । तत्समये तेन मार्गेण गच्छन्ती रुद्राम्बा तौ दृष्टवा  ‘किं भोः, सर्वदा ग्रामे कु त्रापि अवक रमध्ये शयानौ भवन्तौ अद्य अत्र आगत्य किम्‌ एतत्‌ कर्त्‌ु आरब्धवन्तौ? किम्‌ एतत्‌ महत्कार्य्‌ आरब्धम्‌?’ इति पृष्टवती । रुद्राम्बा धनिका । किन्तु तस्याः बुद्धिमत्ताविषये बहूनां सन्देहः । केचन तां मन्दबुद्धिं कथयन्ति स्म अपि । ‘ग्रामस्य हितार्थ्‌ एव एतत्‌ कार्य्‌ । अत्र एकः देवालयः निर्मातव्यः इति अस्माकं प्रयत्नः’ इति उक्त वान्‌ रामः । (चन्दमामाकृपया)

No Comments to “काकतालीयम्‌ – २”

add a comment.

Leave a Reply

You must be logged in to post a comment.