काकतालीयम्‌

रामः कृष्णः च सहोदरौ । तौ नगरे विद्याभ्यासं समाप्य ग्रामं प्रत्यागतवन्तौ । यद्यपि तौ युवकौ दृढकायौ, तथापि उद्योगप्राप्त्यर्थं कमपि प्रयत्नं न आरब्धवन्तौ । भोजनं तु गृहे भवति । भोजनानन्तरम्‌ एतौ सम्यक्‌ निद्रां कुरुतः । पुनश्च मित्रैः सह जल्पनं, कुत्रापि कोणे उपविश्य अक्षक्रीडनम्‌ । पित्रार्जिता सम्पत्तिः अस्तीति कारणतः एतादृशम्‌ अलसजीवनं तयोः प्रवृत्तिः जाता । उद्योगान्वेषणे च उदासीनता । ‘क दाचित्‌ अन्वेषणं करवाम’ इति चिन्तयन्तौ एव कालं यापयतः तौ । पिता कानिचन दिनानि एतत्सर्वं पश्यन्‌ मौनम्‌ आसीत्‌ । अन्ते एकदा तौ सम्यक्‌ तर्जयित्वा विवेकं बोधितवानथ। (अनुवर्तते) (चन्दमामा कृपया)

No Comments to “काकतालीयम्‌”

add a comment.

Leave a Reply

You must be logged in to post a comment.