संस्कृताध्ययनस्य प्रयोजनानि

डा डि शीलाकुमारी, मैसूरु पुरातनकालस्य इदानींतनयुगस्य विद्याभ्यासक्र मः बहुधा विभिन्नः । वेदोपनिषत्काले गुरुकु लानि असान्‌ । गुरुशिष्याणां विद्याभ्यासक्रमः अनेक वर्षपर्यन्तं प्रचालितः असीत्‌ । पूर्णविद्याप्राप्त्यानन्तरमेव शिष्यः गुरुकु लात्‌ बहिः गच्छति स्म । विद्यायाः अध्ययनं, मननं, ध्यानं, निदिध्यासनम्‌ आवश्यकं कर्तव्यमिति परिगणितमासीत्‌ । तदनन्तरं तस्य जीवनोपायः अध्यापनेन वा पौरोहित्येन वा स्वकृ तेः अनुष्ठानं वा भवति स्म । इदानींतन वेगोत्क र्षकाले, यान्त्रीकृ तजीवनशैल्याः काले विद्याभ्याः विद्यार्जनाय नैव, परन्तु जीवननिर्वहणाय वित्तोपार्जनाय च। अतः यत्कि #ात्‌ अध्ययनविषयं यदि वयं अध्येतुं स्वीकुर्मः, तर्हि सर्वे सर्वप्रथमतया एतदेव पृच्छन्ति, “अप्यास्ति उद्योगस्य अवकाशः ? यदि न, तर्हि तत्पठनेन किं प्रयोजनम्‌ ? कृपया त्यजतु” इति । सनातनसंस्कृतेः आकरः भारतः । अत्र एव ऐटि, बीटी, विषयाणां, वैद्यक ीयविषयाणां मध्ये मानविक विषयाः असम्बद्धाः इति भावना जनमानसे दृढनिबद्धा । तत्रापि संस्कृ तभाषा । दिने दिने विद्यालयेषु संस्कृ तछात्राणां संख्या अधाेुखी सञ्जायते । उद्योगाक ांक्षिणः एतद्विषयात्‌ पराङ्‌ ुखाः भवन्ति । परन्तु एतद्‌भावना मिथ्या इति अस्य लेखनस्य उद्देशः । विद्यायाः प्रयोजनानि मानवस्य नैतिकं , सामाजिकं , आर्थिक म्‌ उन्नयनं च। संस्कृ तसाहित्ये धर्मार्थकाममोक्षप्राप्त्यै अनेकाः ग्रन्थाः रचिताः । वेदोपनिषदादिधर्मग्रन्थाः, अर्थशास्त्रादि शास्त्रग्रन्थाः, सुश्रुतसंहितादि आरोग्यग्रन्थाः, क ाव्येतिहासनाटक ादयः सर्वे मानवं सर्वात्मना उन्नेतुेव प्रवृत्ताः । प्रथमतया संस्कृ ताध्ययनेन मानवानां भाषाप्रयोगः शुद्धः अस्खालितः भवति । अतः सर्वक ार्येषु संभाषणसंवहनं सम्यक्‌ भवति । व्यक्ति त्वविक सनं अभिव्यक्ति माध्यनेन भवति । संस्कृ तस्य उन्नताध्ययनेन अधुना जीवननिर्वहणार्थं बहूपयोगाः सन्ति । प्राथमिक शालातः विश्वविद्यालयपर्यन्तं अध्यापकाः भवितुर्हन्ति । तन्मूलकं संस्कृतज्ञानक्षेत्रं विस्तारयितुं शक्नुवन्ति यतः आगामिनि दिनेषु संस्कृतज्ञानसंवहनं भविष्यति । संस्कृ तस्य प्रचारः च भवति । अत्र एकः प्रधानः अंशः अस्ति इति वयं जानीमः एव यतः अधुना संस्कृ तछात्राणां संख्या न्यूनातिन्यूना अस्ति । परन्तु प्रयत्नः तन्मार्गे करणीयः । शिक्षणक्षेत्रं विहाय विफफफफु लावकाशाःसन्ति । संस्कृतभाषा नानाज्ञानशाखनाम्‌ आक रा । अत एव योग, आयुर्वेद, खगोल, प्राच्यविद्या, हस्तप्रतिशास्त्रम्‌ इत्यादिषु क्षेत्रेषु, जैनबौद्धादि दार्शनिकक्षेत्रेषु अवकाशः सन्ति । योगः अधुना विœव्यापी वर्तते । संशोधनक्षेत्रेऽपि अवकाशाः सन्ति । संशोधनाविद्यार्थिवेतनम्‌ अपि लभ्यते । ज्योतिषं, वास्तुशास्त्रं च अधुना बहुान्यक्षेत्राः । अनुवादकार्यक्षेत्रे कर्यं कर्तुं शक्यते । विदेशेषु विशेषतः यूरोप्‌, अमेरिका, जर्मनी देशेषु भारतीयसंस्कृतेः भाषायाः च अनेके विशेषाः बोधक विषयाः सन्ति ।

5 Comments to “संस्कृताध्ययनस्य प्रयोजनानि”

  1. anant kulkarni,pune maharashtra says:

    नमोनमः ,
    एकः महत्वपूर्णःविषयः चर्चितः अस्ति .
    संस्कृताध्ययनस्य प्रयोजनानि सम्यक विवृतानी डा डि शीलाकुमारी महोदयया .अत्र योजकः दुर्लभः खलु .संस्कृत अध्ययनं कृत्वा मया उदर-भरणं सम्यक रीत्या क्रियते .कोपी यदि स्वकीयम अनुभवं निवेदयति तर्हि योग्यम भवेत् .संस्कृत प्रचारार्थं मम हार्दा शुभाशीशः

  2. Chhagan sharma says:

    समीचीनः अयं प्रयासः , सुसंशनीयः अयं लेखः

  3. Jagadish says:

    नमो नमः!
    सम्यक अस्थि एतत विषयं. मम संस्कृत भाषा भुद्धिः शिथिलं अस्थि. मम संस्कृत भाषा पटनारथं उन्नतम पुस्तकानाम नामानि धर्शय्न्तु . धन्यवाद:

  4. धनं प्राप्य अहं किमपि कर्तुं शक्नोमि इति मतम् आधुनिकस्य मानवस्य पतनस्य कारणं । कथं सः न पश्यति यत् रोगानां चक्रव्यूहः तस्य परितः सततः वेगेन वर्धमानः अस्ति ?

  5. Seshadri says:

    Evameva astu samyagassti kintvatra itopyekam vishayam gnatavyam vibudhaih kevalam samskruta vignanena. Api B.A va M.A . Vinaapi sarva vidha prayojanam Asti eti (tasminnahamchaasmi)

Leave a Reply

You must be logged in to post a comment.