मरणनिवेदनम्
जिएस्एस् मूर्ति , बेंगलूरु आगन्तुकामायां सन्ध्यायां वीथीदीपेषु तदानीमप्यदीपितेषु यदा मम स्वसा मामतर्जयत् कुतस्त्वं तव गृहपाठ न सम्यक् कृतवती इति, अहं गृहदेहल्यां स्थिता अरुदम् । सन्ध्यामन्दप्रकाशे वीथ्यां मम निकटमागच्छन्तीं का#ादहमपश्यम् । तस्मै स्वागतं वक्तु महं प्रसन्नतां प्राप्तुयते । सा मम वयस्या प्रभा इत्यहमभ्यजानां यदा सारस्मद्गृहसोपानमारुह्य मम वामहस्तमगृात् । विवर्णवदना प्रभा मम हस्तमात्मन कम्पमानहस्ते प्रगृह्य उच्चै रोदितुं प्रारभत । अहमपि रोदितुं प्रारभे । कतिपयक्षणादेव प्रसन्ना भवन्ती प्रभा मां मन्दस्वरेण अवदत्, फ‘पुष्पे, मा रुद । दु खद उदन्त मया इदानीं सर्ज्ञायरमश्रेव अवगत । मम पिता अद्यतनदिनपत्रिकायां मरणनिवेदनमपश्यत् मह्यमदर्शयच्च । इदं कथं समभवत् ? इति । अश्रूणि प्रमृज्य अहमवदम्, “किम् ? किं समभवत् ?” इति । “तव पिता, तव पिता” इति वदन्ती सा बाहुले निहितां दिनपत्रिकं मम हस्ते न्यधात् । यावदहं पत्रिकां प्रसार्य पठितु रभे तावदेव मम पितां गंभीरवदन गृहाद्वहिरागच्छत् । मत्पितरं दृष्टा भयत्रस्ता प्रभा झटिति परावृत्य अस्मद्गृहाङ्गणात् प्राद्रवत् । अहं रुदन्ती मम पितरमवदम्, “प्रभा वदति तव मरणनिवेदनं पत्रिकायां प्रकटितमिति” । मम पित्रा मम हस्तात् पत्रिकायां द्रुतं कृ ष्टायां, वीथीदीपा दीपिता अभवन् । यावत् तेन स्वचित्रं पत्रिकायामभिज्ञातं तावदेव स प्रसन्नवदन हसितुरभत अवदच्च, “आम्, प्रकटनं मया एव निर्दिष्टम्” इति । गद्गदगिरा अहं तमपृच्छम्, “तात, कुत , कुत ? इति । स मां सोत्कण्ठमाûलष्य, मूर्ध्नि आघ्राय अवत्, “वत्से, कुत रोदिषि ? अहं त्वत्समक्षमेव तिष्ठामि खलु । मह्यं मन्मरणसूचकं शकुनमेकमभवत् । मरणसूचक शकु नप्रतिक्रि यार्थं अतथ्यमरणकिं वदन्तीं प्रसारयेदिति दैवज्ञा कथयन्ति । अत एवाहं तथा अकरवम् । अवगतं खलु ? मा रुद ” इति । पित्रा विगलिते बाहुबन्दे अहं हर्षात् उदपतम् । सुप्ताहं हस्ते मत्पितृरणनिवेदनधरां दिनपत्रिक ां गृाना एव शय्याया अध अपतम् । झटिति जागृताया मम कतिपयदिनात् प्राक् वीथीदुर्घटने मृत पिता पुनरागमिष्यतीति यथार्थज्ञानं चाभवत् । (लघुकथा ईषद्रूपान्तरिता “कथाक्षेत्र” इग्लिष् त्रौसिक पत्रिकायां प्रकटिता)


No Comments to “मरणनिवेदनम्”
add a comment.