संस्कृतसेवा
संस्कृतम् अधीत्य केचन अध्यापका प्राध्यापकाश्च भवन्ति । विद्यालयं गत्वा किन्चित् पाठयित्वा पुष्टं वेतनं लभन्ते । गृहं निर्मान्ति, भार्यायै आभरणानि क्रीणन्ति, स्वपुत्रं चाङ्गलशालां प्रेषयन्ति । तेषां हृदये संस्कृतस्य स्थानम् एव न भवति । केवलम् उद्योगप्राप्तये संस्कृतं मार्गायते । संस्कृतेन न भाषन्ते । एकं वाक्यम् अपि न रचयन्ति गैर्वाण्याम् । एकं संस्कृत पुस्तकं क्रीणन्तु इति प्रार्थयामहे चेत् कि मपि व्याजं प्रस्तूय निराकु र्वन्ति । भोजनालयं वैभवोपेतं गत्वा भोक्तुं शतं रूप्यकाणि व्ययीकु र्वन्ति, किन्तु एकाम् अपि संस्कृतपत्रिकां न क्रीणन्ति । संस्कृतकार्यक्रमे भागंय न वहन्ति । संस्कृतम् अध्येतुं कमपि न प्रेरयन्ति । स्वयं ग्रन्थरचनायास्तु प्रसक्ति रेव तेषु नास्ति । ‘‘संस्कृतसेवां’’ कृतवन्तो वयम् इति निर्लज्जां ब्रुवन्ति । तदर्थं प्रशस्तिं च स्वीकुर्वन्ति । एतादृशानां ‘सेवा’ संस्कृतस्य दु स्थिते कारणम् ।


dhanyabad…
सत्यमस्ति! ममापि संस्कृत प्राध्यापकः केवलं आजीविकायाः प्राप्त्यर्थे एव संस्कृतं पाठयति। तस्य ह्रदये संस्कृतभाषा कोङपि स्थानं न धार्यते।
सोभनमुदीरितम भवता अनेन वयं गीर्वाणवाणीं रक्षयितुं न क्षम
सोभनमुदीरितम भवता अनेन वयं गीर्वाणवाणीं रक्षयितुं न क्षआ
प्रारब्धं उत्तम जनाः न परित्यजन्ति.
भवतु नाम संस्कृत -अध्यापकःसंस्कृत विषय उदासीनः किन्तु सहस्रशः गीर्वाण वाणी रसिकाःसंस्कृत प्रचारार्थं कटी बद्धः कार्य मग्ना: दृश्यन्ते. भाषासु मुख्या ,मधुरा ,दिव्व्या, गीर्वाण भारती जयति जयिश्यती अपि .चिंता न कार्या
अनंत कुलकर्णी,पुणे महाराष्ट्र . ,
thanks
यत भवता उक्तं समीचीनं |