एक सत्यलघुकथा कस्यचित्‌ क्लेशः

विनयशीलेएकेन शिक्षकेण कतिपयवर्षात्‌ प्राग्‌ एकं पुस्तकं प्राप्तं यस्मिन्‌ हिन्दीभाषायाः श्रेष्ठस्य कवेः गोस्वामिनः तुलसीदासस्य विश्रुतस्य महाकाव्यस्य श्रीरामचरितमानस्य खेदजनकं समीक्षणम्‌ आसीत्‌ । तस्मिन्‌ पुस्तके ये आक्षेपाः आसन्‌ तेषां निराक रणं तेन एक स्यां हिन्दीपत्रिकायां शताधिक लेखेषु विहितम्‌ । तान्‌ लेखान्‌ समाहत्य सः स्वधनव्ययेन एक स्मिन्‌ पुस्तके प्राकाश्यं नीतवान्‌ । तत्‌ पुस्तकं सः स्वव्ययेन कानपि विद्वद्वर्यान्‌ प्रति प्रेषितवान्‌ । ये विद्वांसः तस्य सामीप्यम्‌ उपगच्छन्ति, तेभ्यः अपि सः स्वपुस्तकं समुपहरति । खेदस्य विषयः अस्ति यत्‌ सर्वेजनाः निर्मूल्यं पुस्तकं पठितुं अपि वाञ्छन्ति, किन्तु पुस्तकम्‌ अधिक म्य ते पुस्तकं न पठन्ति, तस्य विषये स्वविचारान्‌ न प्राकाश्यं नयन्ति । नानापुराणनिगमागम सम्यतस्य श्रीरामचरितमानसस्य लोक प्रियता प्रतिष्ठा च न केवलं हिन्दीभाषाक्षेत्रे, अपि तु निखिले भारते विद्यते । सर्वासु भाषासु, संस्कृ ते अपि च, तस्य बहूनि रूपान्तराणि विलसन्ति । तस्मिन्‌ ग्रन्थे क श्चिद्‌ लेखकैः निर्ममाः दुर्भावनापूर्णा आक्षेपाः विहिताः । तेषां नितरां खेदक राणाम्‌ आक्षेपाणां यस्मिन्‌ ग्रन्थे मननीयं समाधानं विद्यते । तथाविधस्थ पुस्तकस्य समादरम्‌ अनवलोक्य सः जनः चिन्तयति यत्‌ संसारे साम्प्रतं जनाः सद्‌ग्रन्थान्‌ पठितुं द्रष्टुं क्रेतुं वा न कामयन्ते, ते खलु तान्‌ एव ग्रन्थान्‌ पठितुं कामयन्ते, यः दुराचाराणां दुर्वत्तानां वा निर्वसनं चित्रणं स्यात्‌ । जयतु संस्कृतेः

5 Comments to “एक सत्यलघुकथा कस्यचित्‌ क्लेशः”

  1. c v seshagiri rao says:

    सत्यमुक्तं भवता|

  2. Dr. Ravi Sharma says:

    आपके समाचार पत्र का सदस्या बनने के सन्दर्भ मे.

  3. b.l.kumbhakar ujjain says:

    सत्यम

  4. Narendrakumar Pandya says:

    सत साहित्यस्य सर्जनम योग्यकले अवश्यं फलं जनयति .

  5. A . V N ACHARYULU says:

    वास्तावामुकतम . सद्विशयाह जनान नाकर्शंती .

Leave a Reply

You must be logged in to post a comment.