विनोदाय न तु नोदनाय

एकः ग्रामः । तत्र प्रवचनकारेण एकः प्रवचनकार्यक्रमः व्यवस्थितः आसीत्‌ । निर्दिष्टदिने प्रवचनकारः वेदिकां प्रविष्टवान्‌ । सभान्गणे एकः ग्रामीणः हरितरान्कवेण विभूषितः विराजमानः आसीत्‌ । तेन विना न कोऽपि आसीत्‌ । सभान्गणे । किं भोः ! न कोऽपि अत्र दृश्यते ! प्रवचनीयं वा न वा? इति पप्रच्छ विद्वान्‌ प्रवचनकारः । सः ग्रामीणः सभासदः विनम्रतया कि महं वदानि ! अनक्षरस्थः ग्रामीणः अहम्‌ ! महास्वामि ! किंमया वक्त व्यम्‌ ? एतदेव मया वक्तुं शक्यते ! अहं प्रत्यहं गोष्ठे गोभ्यः ग्रासादिकं आहारार्थं ददामि । यद्यपि सर्वाः गावः न उगताः तथापि आगतायै गवे हरिततृणं समर्पयामि इति अवदत्‌ । ग्रामीणमुग्धस्य अभिप्रायं विज्ञाय प्रवचनकारः प्रवचनं आरभत । निरन्तरं घण्टात्रयं यावत्‌ प्रवचनं अक रोत्‌ । अनन्तरं तं ग्रामीणं श्रोतरं उद्दिश्य प्रवचनं कथं आसीत्‌ ? प्रवचनेन किं प्रयोजनं प्राप्तं ! इति अपृच्छत्‌ । हन्त भोः ! किं वक्तव्यम्‌ ? अहं तु अनक्षरस्थः ग्रामीण । मूढः ! अहं किं जानामि ? किं वक्तव्यम्‌ इति न ज्ञायते ! तथापि एकः विषयः स्पष्टः । अहं प्रत्यहं गवादीनां गोष्ठं गच्छामि । गोभ्यः हरिततृणानि आहाररू पेण समर्पयामि । यद्यपि एकः एव गौः भवति तस्यै तृणं ग्रासं समर्पयामि । परन्तु सर्वं हरिततृणं एक स्यैव गवे न समर्पयामि इति सविनयं अवदत्‌ ! प्रवचनकारः निर्निमेषः ग्रामीणं अवधानेन पश्यति स्म !

No Comments to “विनोदाय न तु नोदनाय”

add a comment.

Leave a Reply

You must be logged in to post a comment.