नीतिकथा दृष्टं न सत्यायत

नारायणो नाम क श्चन प्रौढशालायाः एक स्याः मुख्योपाध्यायः । स निराडम्बरः दाक्षिण्यपरश्च । स्वगृहकृ त्यं निमित्तीकृत्य स्वसेवकानपि न पीडयति स्म । एक दा सः ग्रामान्तरं गत्वा बहुभिः वस्त्रपात्रसम्भारैः सह गृहं प्रतिनिवर्तते स्म । तेन सः अन्यः यात्रिकः तमेव ग्रामं प्रति आगच्छति स्म । उपाध्यायस्य तस्य सः कुशलमपृच्छत्‌ । सः स्वस्य उद्योगः प्रौढशालयां ढइति सूचयामास । विस्तरेण अश्रुण्वन्नेव सः यात्रिकः सेवाधर्मः परमगहन इत्युक्त्वा, तं सेवकं मन्यमानः स्वानुक म्पमक थयत्‌ । मुख्योपाध्यायः मध्याह्ने शालायामवर्तत । कश्चन आगन्तुकः शालां प्रविश्य मुख्योपाध्यायं दृष्टवा मूकः तस्थौ । स तु प्रहसन्‌, आसनादुत्थाय अभ्यागतं आगमनकारणमपृच्छत्‌ । आगन्तुकं दृटवा मुख्योपाध्यायस्य अनिरीक्षितमन्दहासः तत्रस्थं सहोपाध्यायं कुतूहलिनमकरोत्‌ । निर्गते तस्मिन्‌ सः मुख्योपाध्यायः सहोपाध्यायाय सर्वमितिवृत्तं व्यवृणुत । तयोरदृहासः महानासीत्‌ ।

2 Comments to “नीतिकथा दृष्टं न सत्यायत”

  1. sanjay says:

    ९२५८१७८५६०

  2. anant kulkarni says:

    नमोनमः ,
    मह्यं सुधर्मा बहु रोचते |.आद्यन्तं पठामि |.संस्कृत अध्ययनस्य विषये किम लिखितम अस्ति आईटीआई मम कौतूहलं अस्ति |
    सुभाषितम पठित्वा अर्थ -बोधनं तथा च जीवने कथं मार्गदर्शनं भवेत् आईटीआई चिन्तयामि |
    धन्यवाद गलु |

Leave a Reply

You must be logged in to post a comment.