भेकवृश्चिकौ

कश्चिद्‌ भूमौ सर्पन्‌ झरस्य कस्यचित्‌ तटमाससाद । क थं झरमिमं तरेयमिति चिन्ताकुलः तत्रैव कञ्चित्‌ स्थूलं भेक मपश्यत्‌ । वृश्चिकः अभाणीत्‌ मित्र ! भेक ! मामेनं झरं तारय । अहं तव पृष्ठं आश्लिष्य वर्ते इति । मण्डूकः प्रत्युवाच सखे ! त्वं खलु दुष्टः ! बालाग्रेण तीक्ष्णेन दशसि ! तथा च जले निमग्नः म्रिये इति । वृश्चिकः विहस्याह अहो कीदृशो मूर्खस्त्वम्‌ । यदि त्वं निमज्जसि तर्हि पृष्ठे स्थितोऽहमपि निमग्नो मृतो भवेयम्‌ । अतः मया दंशनं असंभवमेव । विश्वसिहि । रमज्ञाळं पृष्ठे आरोप्य झरस्य पारं नय इति । भेकोऽनुमेने । वृश्चिकः दर्दुरस्य पृष्ठमारोहत्‌ । मण्डूकः जले प्लवमानः अयात्‌ । मध्येझरं तरति मण्डूके वृश्चिकः स्वभावमनिगृ†न्‌ आपदं जानन्नपि तीक्ष्णेन बालाग्रेण मण्डूकं पृष्ठे ददंश । यातनामनुभवन्‌ भेकः वृश्चिक ! प्रतिजानन्नपि त्वं अदशः विल इत्यगदत्‌ । वृश्चिकः स्वभावो दुरतिक्रमः इत्यर्धोक्ते एव उभावपि मग्नौ मृतौ च ।

2 Comments to “भेकवृश्चिकौ”

  1. jitendra shah says:

    Congratulations to you for publishing this wonderful news letter. Please send me this newsletter regularly

    with warm regards.

    Jitendra shah

  2. paresh says:

    Thanks for this initiative

Leave a Reply

You must be logged in to post a comment.