कारागृह वासं इच्छुक्तः

कारागृहे उषित्वा सुखेन स्थास्यामि इति मत्वा कश्चन कारागृहं गन्तुं निश्चितवान्‌। किमपि अकार्यं कृतं विना कारागृहवासं न लभ्यते। एकदा एवं मार्ग मध्येसमूहे गच्छतः कस्यचन मस्तके ताडयन्‌ स्वामिन्‌ अहमेव एनं ताडितवान्‌ क्षम्यताम्‌ इत्यवदत्‌ । एषः भ्रान्तः इति मन्ये, यःकोऽपि ताडयित्वा अहमेव ताडितवानिति वदति वा ? इत्युक्त्वा अग्रे गतवान्‌। राजभटानां विज्ञापितं चेत्‌ कारागृहं प्राप्तवान्‌ आसम्‌ इत्यस्य निश्चयं न फलितम्‌। ततः कस्यचित्‌ चलन चित्र मन्दिरस्य बहिः द्विचक्रयानानि स्थापयन्ति स्म । तेषु यानमेकं गृहीत्वा आरोढं उद्युक्तवानासीत्‌ । तावदेव चिमन्दिरादागतः व्यक्तिः तत्‌ यान समीपे प्राप्तः। तदा एषः भवतः यानं वा स्वीकरोतु भवान्‌, अजानता अभवत्‌। वास्तवं एषः चोरयितुं एव आगतवान्‌ आसीत्‌ । परन्तु इदानीमपि कारागृह गन्तुं इच्छा निष्फला अभूत्‌ । अथ किं कर्तव्यं इति चिन्तयन्‌ कश्चित्‌ मार्गमध्य वृत्त समीपे तिष्ठति स्म। तत्र वाहन नियन्त्रिकस्य टोपीं उड्डयितवान्‌ । तत्र टोप्या अन्ततः वृश्चिकमेकं उत्पतत्‌ । स भटः स्वामिन्‌ भगवान्‌ इव आगत्य मां रक्षितवान्‌ भवान्‌ इत्युक्त्वा एनं अवनम्य हस्तैः योजितवान्‌। अत्रापि अस्य मनोऽभीष्टय अपूर्णमेव अतिष्ठत्‌ । तदा एषः यद्यत्‌ संभवति तदा तदा तत्तत अनुभवितव्यमेव नान्यः पन्था विद्यतेऽयनाय।

No Comments to “कारागृह वासं इच्छुक्तः”

add a comment.

Leave a Reply

You must be logged in to post a comment.