चोरेण कृत अश्व विक्रयम

कश्चित्‌ चोरः अश्वमेकं चोरयित्वा विक्रयार्थं विपणिं नीतवान्‌। ग्राहकः एकः आगत्य अश्वस्य मौल्यम्‌ कियदिति पृष्टवान्‌ । चोरितः अश्वस्य मौल्यं चोरः कथं जानाति ? भवानेव वदतु इत्युक्तवान्‌ । अश्व त्वदीयः खलु, त्वमेव वद इति ग्राहकः अवदत्‌ । चोरः पञ्चशतं रूप्यकाणि इति । पञ्च सहस्र रूप्यक मौल्य अश्वस्य पञ्चशतं रूप्यकाणीति वदति एषः प्रायशः एषः अश्व चोरितमेव आसीत्‌ इति निश्चित्य मौल्यं अधिकं वदसि किंचिन्नयूनं कुरु इति ह्रासं कृत्वा कृत्वा पञ्चाशत्‌ रूप्यक पर्यन्तं अवदारितवान्‌ । चोरः तदपि अनुमोदितवान्‌ । पञ्चाशत्‌ रूप्यकमपि किमर्थं दातव्यम्‌ ? इति चिन्तयित्वा एकवारम्‌ अश्वपरि आरुह्य पश्यामीत्युक्त्वा अश्वरूढवानेव । चोरः एष ग्राहकः कदा आगच्छतीति प्रतीक्ष्यन्नासीत्‌ । सायंकालं तावत्‌ न प्रत्यागतवान्‌ । तदा चोरः ज्ञातवान्‌ वञ्चितोऽहमिति पोर्शस्थः अपरः पृष्टवान्‌ कियत्‌ मौल्येन अश्व गतः ? कियत्‌ मौल्येन स्वीकृतं तन्मौल्येन एव गतम्‌ इत्युत्तरं आगतं अश्वचोरेण । उच्यते कि अन्यायेनोपार्जितं द्रव्यं तन्नयायेन विनभ्यति ।। इति ।

No Comments to “चोरेण कृत अश्व विक्रयम”

add a comment.

Leave a Reply

You must be logged in to post a comment.