भारतदेशोऽस्माकं स्पर्धी
वाषिन्गटन् अमेरिकादेशाध्यक्षः बाटक् ओबामः अत्राब्रवीत् चीनभारतदक्षिण कोरिया प्रभृतयो देशाः अमेरिकादेशस्य स्पर्धिनः इति । चीनदेशे अभिवृद्धिः त्वरिततरा दृश्यते । भारतदेशो दिने दिने शतशोऽभियन्त¦न् विज्ञानिनश्च उत्पादयति । वयम् अमेरिकीयाः यदि न जागृयाम, तर्हि एतेऽस्मान् सर्वेषु क्षेत्रेषु पराजित्य पुरो गमिष्यन्ति इति अमेरिकाध्यक्षो अब्रवीत् ।