logo
Last updated: 2010-02-20 16:46:07
Subscribe to receive sanskrit news by email Rss feed Follow us Become a Fan
E-Paper
Archives
February 2010
M T W T F S S
« Jan   Mar »
1234567
891011121314
15161718192021
22232425262728

यूनामविनयो न क्षमार्ह

दिल्ली समीपस्थे नोयिडाप्रदेशे षड्‌ युवानोऽतितरां मत्ताः स्वच्छन्दाचरणेन क स्यचिदारक्षकाधिकारिणः प्राणापायमकार्षुरिति भयन्करी वार्ता श्रुयते । घटनाविवरणमित्थं वर्तते । षड्‌ युवानो मद्यं पीत्वा कार्‌यानं वेगेन धावयन्ति स्म नोयिडाप्रदेशे । उपनिरीक्षको जान्‌पीटरः तान्‌ निरुध्य आरक्षक स्थानम्‌ अनेषीत्‌ । तत्र तेषां यूनाम्‌ उपरि व्यवहारः पञ्जीकृ तः । ततः ते प्रतिभुवं (लरळश्र) प्राप्य बहिरागताः । पूर्वोक्त मेव यानम्‌ आरुह्य ते प्रस्थिताः । मध्येमार्गं ते द्विचक्र वाहनेन यान्तम्‌ उपनिरीक्षकं जान्‌ पीटरम्‌ अद्राक्षुः । क्रोधेन स्ववाहनस्य वेगं वर्धयित्वा अघट्टयन्‌ । जान्‌ पीटरः भूमावपतत्‌ । तावतापि अतृप्यन्तो युवानो यानं पतितस्य पीटरस्योपरि अवाहयन्‌ । तदा तस्य अन्गानि भग्नानि । रक्तं भूम्यां प्रावहत्‌ । पुनरन्ये आरक्षक ास्तावन्‌ यूनो न्यगृ†न्‌ । सम्प्रति ते बन्धने विद्यन्ते । सर्वकारोद्योगिनं हन्तुं तैः स्वेच्छया प्रयतितम्‌ इति व्यवहारः पञ्जीकृ तः । भग्नान्गः पीटरः इदानीं चिकि त्सालये जीवनमरणयोः मध्ये गतागतं कुर्वाणो वर्तते । यति स मरिष्यति, तर्हि षण्णां यूनाम्‌ उपरि मारणव्यवहार एव पवर्तयिष्यते । मद्यपानेन मत्ताः किं किं न कुर्वन्ति ? तेषां स्वपरहितं न भाति । तादृशोभ्योऽपि प्रतिभूः कश्चिद्‌ भवति, तादृशान्‌ अपि बन्धनान्‌ मोचयतीति दुःखस्य कारणम्‌ । मत्ताः वाहनं चालयन्ते यदि गृह्यन्ते, तर्हि ते मदावतरणपर्यन्तं बन्धनान्न मोचनीयाः इति शासनं कर्तव्यम्‌ । अन्यथा लोक स्य क्षेमं नास्ति । मदोन्मत्ताः यदा अपराधान्‌ कुर्वन्ति, तदा ते तीव्रं दण्डनीयाः ।


Saturday, February 20th, 2010 at 4:46 pm

SocialTwist Tell-a-Friend

Be the first to write to Editor

Write to the Editor

 

Online Tattoo Translations - Get your name, tattoos, word, sentence translated by skilled professionals in Sanskrit, Tibetan, Hebrew, Chinese, Hindi and Gujarati.
Also visit Online Tattoo Resources for Tattoo Studios Information & Reviews.