वार्तासंग्रहः १९ फेब्रवरि २०१०
* हैदराबाद् तेलङ्गाणपृथग् राज्यविषये शनिवासरे विधानसभायाः अधिवेशनसन्दर्भे टिआर् चन्द्रशेखरराव् नेतृत्वे बृहत् प्रतिभटनं सर्वकारं विरुध्य प्रदर्शनमायोजितम् ।
* मधुरै २०११ तमवर्षे प्रचलिते विधानसभायाः निर्वाचने करुणानिधिब एव पुनः मुख्यमन्त्री भविष्यति इति केन्द्र सचिवः श्री एम्केअळगिरि एकस्मिन् समारम्भे अब्रवीत् ।
* इस्लामाबाद् पाकिस्थाने अमेरिकादेशस्य ड्रोन् आक्रमणेन पञ्चदश उग्राः मृताः इति वार्ता ।
*नवदिल्ली फेब्रवरिमासस्य चतुर्विंशतितमदिनाङ्के बुधवासरे श्रीमती ममता ब्यानर्जी २०१० ११ तम आर्थिक वर्षस्य पट्टिका विभागस्य आयव्ययपत्रं मण्डितवती ।
*वाषिङ्गटन् भारतदेशमुपरि उग्राः पुनः आक्रमणं कृतवन्तः इति अमेरिकादेशस्य गुप्तचर विभागः अवधानं प्रादात् ।
* नवदिल्ली सप्तविंशतिराज्येषु शीघ्रमेव नूतन शैक्षणिकयोजनायाः अनुष्ठानार्थम् अनुमतिः प्रदत्ता इति राष्ट्रीय माध्यमिक शिक्षा अभियान संस्था सूचयामास । योजनार्थं २९०० कोटिरूप्यकधनं व्ययी करिष्यति इति संस्था प्रकटनात् सूचयति ।
* कराचि पाकिस्थानदेशस्य कराचिनगरे बृहत् स्फोटः समभवत् २३ अधिकाः जनाः मृताः इति वार्ता ।
* शिम्ला महात्मागान्धिनः हन्तकः गोडसेविचारणा स्थलं पवासिस्थलात् हिमाचल सर्वकारः परिवर्तितः।
* नवदिल्ली वरिष्ठाः पत्रिकाकारिणी मृणालपाण्डे महाभागा प्रसार भारत्याः नूतन अध्यक्षस्थाने नियुक्ता ।
*रायचूरु मन्त्रालय श्रीराघवेन्द्र स्वामिना पट्टाभिषेक महोत्सवार्थं श्री सुयतीन्द्रतीर्थ श्रीपादाः चालनं कृतवन्तः ।