किं वयं नागरिकाः?
वयं नागरिका इति सभ्या इति संस्कृतिमन्त इति कत्थामहे । किन्तु क्षणे क्षणे कथं प्रवर्तामहे इति यदा चिन्तयामस्तदा अस्माकं सभ्यतायां सन्देहसन्दोह उत्पद्यते । संवादकार्यक्रमे भागं वोढुं श्रीरामसेनायाः नायको मुतालिकः आगतः। चर्चा प्रवृत्ता । तदा कांग्रेस्पक्षस्य कार्यकर्तारः सहसा वेदिकां प्रविश्य मुतालिकस्य मुखं मष्या प्रसभम् अलिम्पन् । एषा किम् अनागरिकवर्तना न भवति ? कस्यापि विचारो वैचारिकविधया एव निरसनीयः । व्यक्तिमानहरणं नागरिके समाजे न शोभते । एतत् प्रतिकर्तुं श्रीरामसेनायाः सदस्यैः यत् कृतं तद् अयुक्ततरम्। कांग्रेस्पक्षस्य कार्यालयस्य वातायनकाचानां भेदनम्, तत्र अग्नेः प्रक्षेपणम्, वीथ्यां सञ्चरताम् वाहनानां दिशि अश्मखण्डक्षेपणम्, जनानां हिंसाकिमिदं नागरिकसमाजे शोभते ? प्रजाप्रभुत्वे सर्वेषां जनानां केचनाधिकारा भवन्ति । तेषां दुरुपयोगोऽनागरिकतां सूचयति । विवादानां परिहारे न्यायानुगुण एव पन्थाः आश्रयणीयः। स्वयं दण्डदाने प्रवर्तनं मृगप्रभुत्वस्य लक्षणं भवति । पाशवीं सरणिं त्यक्त्वा शीघ्रं नागरिका भवेम ।