अक्षरमाला
रामः लिखति अ आ इ ई
कृष्णः लिखति उ ऊ ऋ ऋ ।
बालः लिखति ए ऐ ओ
औ अं अः लिखति गोपीनाथः।।१।।
का त्वं बाले काञ्चनमाला
कस्याः पुत्रि कनकलतायाः।
हस्ते किं ते तालिपत्रम्
कावा रेखा क ख ग घ ।।२।।
कस्तवं बाल मोहन कृष्ण
कस्याः पुत्र हेमलतायाः।
हस्ते किं तत् लेखनफलकम्
किं तल्लिखितम् च छ ज झ ।।३।।
का त्वं बाले स्नेहलताहम्
कस्याः पुत्रि हंसलतायाः।
हस्ते किं तत् लेखनपत्रम्
किं वा लिखसि ट ठ ड ढ।।४।।
कस्त्वं बालः दीनदयालुः
को वा जनकः रामकिशोरः।
हस्ते किं तत् पुस्तकमेव
किं वा पठसि त थ द ध।।५।।
का सा बाला प्रेमलता सा
कस्याः पुत्रि कल्पलतायाः।
हस्ते किं वा लेखनपत्रम्
किं वा वदति प फ ब भ ।।६।।
श्रीशः लिखति य र ल व
माला पठति श ष स ह
सर्वे लिखति ञ म ङ ण न मिति
देवः नन्दति दृष्ट्वा सर्वम्।।७।।