logo
Last updated: 2010-01-29 14:08:25
Subscribe to receive sanskrit news by email Rss feed Follow us Become a Fan
E-Paper
Archives
January 2010
M T W T F S S
« Dec   Feb »
 123
45678910
11121314151617
18192021222324
25262728293031

लघु नीतिकथा : चौरेण कृत अश्व विक्रयम्‌

कश्चित्‌ चोरः अश्वमेकं चोरयित्वा विक्रयार्थं विपणिं नीतवान्‌ । ग्राहकः एकः आगत्य अश्वस्य मौल्यम्‌ कि यदिति पृष्टवान्‌ । चोरितः अश्वस्य मौल्यं चोरकः कथं जानाति ? भवानेव वदतु इत्युक्तवान्‌ । अश्वः त्वदीयः खलु, त्वमेस वद इति ग्राहकः अवदत्‌ । चोरः पञ्चशतं रूप्यकाणि इति । पञ्च सहस्र रूप्यक मौल्य अश्वस्य पञ्चशतं रूप्यकाणीति वदति एषः, प्रायशः एषः अश्वः चोरितमेव आसीत्‌ इति निश्चित्य, मौल्यं अधिकं वदसि, किञ्चिन्नूयनं कुरु इति ह्रासं कृत्वा कृत्वा पञ्चाशत्‌ रूप्यक पर्यन्तं अवतारितवान्‌ । चोरः तदपि अनुमोदितवान । पञ्चाशत्‌ रूप्यकमपि कि मर्थं दातव्यम्‌ ? इति चिन्तयित्वा, एक वारम्‌ अश्वोपरि आरुह्य पश्यामीत्युक्त्वा अश्वारू ढवानेव । चोरः एषः ग्राहकः क दा आगच्छतीति प्रतीक्ष्यन्नासीत्‌ । सायकालं तावत्‌ न प्रत्यागतवान्‌ । तदा चोरः ज्ञातवान्‌ वञ्चितोऽहमिति । पार्श्वस्य अपरः पृष्टवान्‌ कि यत्‌ मौल्येन अश्वः गतः? कियत्‌ मौल्येन स्वीकृ तं तन्मौल्येन एव गतम्‌ इत्युत्तरं आगतं अश्वचोरेण । उच्यते किल अन्यायेनोपार्जितं द्रव्यं तन्नयायेन विनश्यति ।। इति ।


Friday, January 29th, 2010 at 2:08 pm

SocialTwist Tell-a-Friend

Be the first to write to Editor

Write to the Editor

 

Online Tattoo Translations - Get your name, tattoos, word, sentence translated by skilled professionals in Sanskrit, Tibetan, Hebrew, Chinese, Hindi and Gujarati.
Also visit Online Tattoo Resources for Tattoo Studios Information & Reviews.