यद्यदाचरति श्रेष्ठः
साधारणो जनः महतः अनुसरति, अनुवर्तते, अनुकरोति च । महानुभावैः प्रोक्तं सर्वदा नानुसरति, अपि तु तैः कृतं ज्ञात्वा तथा कर्तुं यथाशक्तिं यथावकाशं च प्रयतते। अन्यथा कृत्वा अन्यथा यदि कश्चित् भाषते, तर्हि तस्य भाषितं बधािकर्णजापायते । राष्ट्रस्य उन्नतेषु सिंहासनेषु उपविष्टाः नायकाः यदि स्वच्छशीलाः, तर्हि जनोऽपि तान् अनुकुर्यात् । एतावत्पर्यन्तं वयं किम् अपश्यामः? मन्त्रिणः स्वयं भव्यानि भवनानि आत्मनः कृते निर्मितवन्तः। स्वबन्धुभ्यः श्रेष्ठान् उद्योगान् दत्तवन्तः। स्वबन्धुभ्यः उपकारान् कृतवन्तः। एतादृशं स्वार्थसाधनं पश्यन्तो जनाः कथं वा स्वार्थं विहाय देशभक्ताः भवेयुः ? उन्नताः अधिकारिणः भ्रष्टाचारस्य शिखरे निवसन्ति । उद्योगस्य प्रदानाय, स्थानान्तरप्रापणाय उन्नतये च ते मन्त्रिभ्यः उत्कोचं ददति, अन्येभ्यश्च स्वयं स्वीकुर्वन्ति । एवंस्थिते अन्ये कायस्थादयः यथाशक्ति उत्कोचप्राप्तये प्रयतन्त इत्यत्र किमाश्चर्यम् ? अतः अद्य राष्ट्रे भ्रष्टाचारनिर्मूलनं वा संशासनशुद्धिर्वा यदि अपेक्षिता, तर्हि मन्त्रिणः तत् आरभन्ताम् । निर्वाचनेषु न्याय्येन मार्गेण जयं ते प्राप्नुवन्तु । स्वाधिकारप्रयोगे स्वजनपक्षपातं मा स्म कुर्वन् । भ्रष्टाचारपरान् निर्दाक्षिण्यं दण्डयन्तु । तदैव प्रजाः अपि सत्पथे चलिष्यन्ति । अर्थरहितः शुष्कः उपदेशः किमपि प्रयोजनं न साधयिष्यति इति सत्यं न कश्चित् विस्मरेत् ।