logo
Last updated: 2010-01-08 14:15:38
Subscribe to receive sanskrit news by email Rss feed Follow us Become a Fan
E-Paper
Archives
January 2010
M T W T F S S
« Dec   Feb »
 123
45678910
11121314151617
18192021222324
25262728293031

विनोदाय : उपायः अपायः

रावणः सीताम्‌ अपहृत्य तु अनयत्‌ किन्तु सीता राज्ञी भवितुं न इष्टवती रावणः सीतां हनिष्यामि इति वदन्‌ तस्यां भयं जनयितुं प्रयत्नम्‌ अकरोत्‌ । सामदानभेददण्डादिभिः सर्वविधैः अपि उपायैः सः तां परीक्षितवान्‌ । किन्तु फलं शून्यम्‌ एव ! सीता सदैव रामजपे रता । रावणः आप्तसचिवम्‌ आहूय अनया नार्या मम वचनानि न आद्रियन्ते । मम वचनानि न श्रूयन्तेऽपि । रामे एतादृशं महिमा कः वर्तते ? बहुधा चिन्तयित्वा अपि अहं कारणं ज्ञातुं असफलः एव ! किं करणीयम्‌ इति न ज्ञायते इति अवदत्‌ । उपायः कश्चन वर्तते एतदर्थम्‌ इति सचिवः सूचितवान्‌ कः सः उपायः? रावणः अपृच्छत्‌ । मायावी भवान्‌ श्रीरामरू पेण सीतासमीपं गच्छतु । तदा सीता भीता भवदधीना भवेत्‌ इति अवदत्‌ मन्त्री । रावणः छद्मवेषेण सीतासमीपं गतवान्‌ । परं यथागतं तथैव विनाशब्दं प्रत्यागतं तेन । तस्य मुखात्‌ स्वेदबिन्धवः निस्सरन्ति स्म । तदीयः श्वासोच्छवासगतिः तीव्रा जाता । प्रतीक्षमाणं मन्त्रिणम्‌ उद्दिश्य सः अवदत्‌ मया तां प्राप्तुं कृ तः सर्वः अपि प्रयत्नः व्यर्थः जातः इति । किं जातं तत्र? इति अपृच्छत्‌ आप्तसचिवः । भवतः सूचनानुसारेण अहं छद्मवेषेण सीतासमीपं गतवान्‌ । किन्तु हन्त भोः ! तत्र सीता नासीत्‌ । परम्‌ आसीत्‌ तत्र मन्दोदरी !! रावणस्य वचनेषु तीव्रतरं कम्पनम्‌ आसीत्‌ ।


Friday, January 8th, 2010 at 2:15 pm

SocialTwist Tell-a-Friend

Be the first to write to Editor

Write to the Editor

 

Online Tattoo Translations - Get your name, tattoos, word, sentence translated by skilled professionals in Sanskrit, Tibetan, Hebrew, Chinese, Hindi and Gujarati.
Also visit Online Tattoo Resources for Tattoo Studios Information & Reviews.