अनुभवः रोमाञ्चनञ्च स्वयंपाकः प्रायागिक पाठश्च
तदा अहं बिएड् प्रशिक्षणछात्रः आसम् । भाटक प्रकोष्ठे मम आवासः । शिक्षण प्रबोधन प्रशिक्षणेन सह स्वयं पाक स्यापि प्रायोगिक पाठः मम आपतितः । मम बिण्डीनफ लस्य कवथितं बहु इष्टम् । स्वगृहे तत् बहुवारं आस्वादितवान् आसं, परं स्वयमेव पाकं न कृ तवान् आसम् । तद्दिने प्रातः मया पाकः आरब्धः । प्रथमम् अहं अन्नं सम्पादितवान् । तदनुसृत्य बिण्डीनक क्व थित पाक स्य आरम्भः । बिण्डीनक फ लस्य खण्डान् पात्रे संस्थापितवान् । जलं, लवणं, गुडं, सिद्धक्व थितचूर्णं इतरव्यञ्जनानि च मिश्रीकृत्य पात्रं मृत्तैलचुल्यां स्थापितवान् । प्रायः विंशति निमेषपर्यन्तं उष्णीकृ तवान् । पाक कार्यस्य मध्ये विद्यालयस्य प्रायोगिक बोधनसिद्धता अपि क रणीया आसीत् । ततः अहं क वथितपात्रं अधः स्थापितवान् । अत्रान्तरे समयविलम्बः जातः त्वरया स्नानादिकं पूरयित्वा बोधनायुधैः सह विद्यालयं प्रति धावितवान् । मध्याह्ने भोजनार्थं गृहं आगतवान् । हस्तपादप्रक्षालनं कृतम् । भोजनार्थं स्थाल्यां अन्नं परिवेषितवान् अहम् । क वथितं उद्धृत्य स्थाल्यां परिवेषयन् आसम् । हन्त भोः! किं तत् क्व थितं उत निर्यासरसः !? मया कृतं मयैव द्रष्टुं अपि अयोग्यं आसीत् । पाक समये तत्र तिन्त्रिणीनि न योजिता इति मया तदा स्मृता । किं प्रयोजनम्? प्रथम चुम्बने दन्तभग्नः इव आसीत् मम स्थितिः । मयाकृ तं मयैव अनुभोक्त व्यं आपतितम् ।