रावणवधाख्यं महाकाव्यम्‌ २

आदौ पद्यत्रयं दृश्यताम्‌ अभून्नृपो विबुधसखः परन्तपः श्रुतान्वितो दशरथ इत्युदाहृतः । गुणैर्वरंभुवनहितच्छलेन यं सनातनः पितारमुपागमत्‌ स्वयम्‌ ।।

सोऽध्यैष्ट वेदास्त्रिदशानयष्ट पित¦न्‌ अपारीत्‌ सममंस्त बन्धून्‌ ।

व्यजेष्ट षडवर्गमरंस्त नीतौ समूलघातं न्यवधीदरींश्च ।।

वसूनि तोयं घनवद्‌ व्यतारीत्‌ सहासनं गोत्रभिदाध्यवात्सीत्‌।

न त्र्यम्बकादन्यमुपास्थितासौ यशांसि सर्वेषुभृतां निरास्थत्‌ ।।

अत्र तिङन्तानि लुङि प्रयुक्तानि । इत उत्तरं चतुर्थे पद्ये लिट्‌ दृश्यते (जज्वाल लोकस्थितये स राजा) । पदे पदे व्याकरणविशेषाः सर्वत्र दृश्यन्ते । विबुधसख इत्यत्र राजाहस्सखिभ्यष्ट्यू, परन्तप इत्यत्र द्विषत्परयोस्तापे खचि ह्रस्वः इत्यादि । प्रथमसर्गस्यान्यदेकं पद्यं विलोक्यताम्‌

स शुश्रुवांस्तद्‌ वचनं मुमोह राजासहिष्णुः सुतविप्रयोगम्‌ ।

अहंयुनाऽथ क्षितिपः शुभंयुरू चे वचस्तापसकुञ्जरेण ।।

भाषायां सदवसश्रुवः इति सूत्रेण शुश्रुवस्‌शब्दः सिध्यति। हिष्णुशब्दस्तु अलंकृञानिराकृञ्ख् प्रजनोत्पचोत्पतोन्मदरुच्यपत्रप्रवृतु वृधुसहचर इष्णुच्‌ इति सूत्रेण । अहंशुभयोर्युस्‌ इति सूत्रेण अहंयुः शुभंयुः इति शब्दो सिद्धौ । तापसकुञ्जरेण इत्यत्र तापसः कुञ्जरः इवेति विग्रहः। उपमितं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रेण समासः। क्षितिं पातीति क्षितिपः। आतोऽनुपसर्गे कः इति सूत्रेण कप्रत्ययः। आतो लोप इटि च इति सूत्रेण धातोराकारस्य लोपः । उपपदमतिङ्‌ इति सूत्रेण समासः । इत्थं भट्टिकाव्ये सर्वत्र व्याकरणसूत्राणि स्मरणीयानि। तृतीयसर्गस्थं पद्यमेकं पश्यन्तु दिदृक्षमाणः परितः ससीतं रामं यदा नैक्षत लक्ष्मणं च । रोरुद्यमानः स तदाभ्यपृच्छद्‌ यथावदाख्यन्नथ वृत्तमस्मै ।। दिदृक्षमाणः द्रष्टुमिच्छुरित्यर्थः। दृश्‌धातोः सन्नन्ताच्छानच्‌। दृश्‌ परस्मैपदी। पूर्ववत्‌ सनः इति सूत्रात्‌ सन्नन्तादपिददृशः परस्मैपदं प्राप्नोति। किन्तु ज्ञाश्रुस्मृदशां सनः इत्यपवादसूत्रं प्रवर्तते। तेनात्मनेपदमेव। जिज्ञात्पते शुश्रूषते सुस्मूर्षते दिदृक्षते इति। अतः शानजेव। रोरुद्यमानः इति यङन्तात्‌ शानच्‌। धातोरेकालो हलादेः क्रियासमभिहारे यङ्‌। अनुदात्तङित आत्मनेपदम्‌। तङानावात्मनेपदम्‌ इत्यादीनि सूत्राणि अत्र स्मर्तव्यानि। यथावदिति यथा अर्हति इत्यर्थे। तदर्हम्‌ इति सूत्रेण वतिः। आख्यन्‌ इत्यत्रअस्यतिवक्त्रिख्यातिभ्योङ्‌। एव व्याकरणविशेषा अत्र ज्ञेयाः।

No Comments to “रावणवधाख्यं महाकाव्यम्‌ २”

add a comment.

Leave a Reply





Type the word, enter space and wait for word suggestions. To type in English, press Ctrl+g.