logo
Last updated: 2009-10-01 11:48:11
Subscribe to receive sanskrit news by email Rss feed Follow us Become a Fan
E-Paper
Archives
October 2009
M T W T F S S
« Sep   Nov »
 1234
567891011
12131415161718
19202122232425
262728293031  

लघुनाटकम्‌ मुग्धभक्तिः (प्रथमदृश्यम्‌)

(शिवभक्त स्य गृहम्‌ । शिवभक्तः तस्य पत्नी, पुत्री च दृश्यन्ते रन्गे) शिवभक्तः (गायति) गन्गाधर परमेश्वर निहतासुर शम्भो परिपालय करुणालय सक लानतबन्धो । विधुशेखर विनिवारय मम दुर्मतिजातं परिदर्शय मार्गं मम मुक्ते रिह सुलभम्‌ ।। भगवन्‌, शन्कर, आ बहोः कालात्तव पादाब्जपरिचर्यारतेऽपि मयि किं न प्रसीदसि ? कुरुकृपाम्‌ । (पत्नीं प्रति ) गृहिणि, अपि सिद्धा पूजासामग्री ? शिवालयं गत्वा भगवदर्चनां कर्तुमिच्छामि । गृहिणी आर्यपुत्र, सर्वं सिद्धम्‌ । इमानि पुष्पाणि । इमानि फलानि । इमा आपः । इदं भगवतेऽर्पणीयं नैवेद्यं गुडान्नम्‌ । नमत्वार्यपुत्रः । शिवभक्तः तथा । गृहिणी आर्यपुत्र, मया वाता; लब्धा । मम माता अतीव रुग्णा । अतीतनवतिवर्षा सा कदा भगवत्पादारविन्दे लीना भवतीति न ज्ञायते । सा मां दिदृक्षते इति वार्ताहरेणोक्त म्‌ । अतोऽद्य सायन्काले ग्रामं जिगमिषामि । श्वो भवतैव पूजासामग्री साधयितव्या । मातरं दृष्टवा श्वः सायं प्रत्यागमिष्यामि । शिवभक्तः भवतु । क ष्टं कि ल वृद्धानां जीवनम्‌ । आयुष्यं शिव देहि दीर्घमिति वै संप्रार्थयन्ते जनाः को लाभो यदि बाधते गदगणो देहं जराक्लेशितम्‌ । कर्णे चक्षुषि वा न चास्ति पटुता, शक्ति र्न शर्वार्चने किं वा कार्यमिहायुषा यदि शिवध्याने न शक्तं मनः? ।। गृहिणि,गत्वा मातृदर्शनं प्राप्यागच्छ । अहं श्वः स्वयं नैवेद्यादिकं निष्पाद्य पूजां निर्वर्तयिष्ये । पुत्री जनक , अहं यथाशक्ति तव कार्ये साहाय्यं क रिष्यामि । अम्बा गच्छतु मातृगेहं विना चिन्तया । गृहिणी भवतु पुत्रि, तथा भवतु । जानामि ते भगवद्‌भक्ति म्‌ । श्रद्धायां पितरमपि अतिशेषे । अहमद्य गत्वा मातृदर्शनं प्राप्य श्वः सायं निवर्तिष्ये । तावत्तवैव गृहभारः । रात्रौ सर्वाणि पात्राणि क्षालय । प्रातः शीघ्रम्‌ उत्थाय गृहं सम्मार्जय । स्नात्वा पूजासामग्रीसिद्धतायां पितुः साहाय्यं कुरु । सदा शिवस्तोत्राणि पठन्ती भगवन्तं स्मरन्ती सर्वं कार्यं कु रु । पुत्री अम्ब, त्वद्वचनं सर्वं पालयामि । मनसि ते चिन्ता मा भूत्‌ । शिवभक्तः अस्तु । प्रयाणवेलायां जागृता वर्तस्व । मार्गे हिंस्राः पशवो भवेयुरपि । अन्यैः पथिकैः सह प्रयाहि । गृहिणी तथैव क रिष्यामि । शिवभक्तः तर्हि अहं देवालयं गमिष्यामि । पुत्रि, गृहरक्षायां तत्परा भव । क्रीडार्थं यदि सख्य आह्वयन्ति, तर्हि मा गमः । पुत्री जनक ः तथा क रिष्यामि । चिन्तां मा कृ थाः । देवालयं गत्वा पूजां निर्वर्तय ।


Thursday, October 1st, 2009 at 11:48 am

SocialTwist Tell-a-Friend

Be the first to write to Editor

Write to the Editor

 

Online Tattoo Translations - Get your name, tattoos, word, sentence translated by skilled professionals in Sanskrit, Tibetan, Hebrew, Chinese, Hindi and Gujarati.
Also visit Online Tattoo Resources for Tattoo Studios Information & Reviews.