हितोपदेशः प्रस्ताविका

औरसं कृतसंबंधं तथा वंशक्रमागतम्‌ ।

रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम्‌ ।।३२ ।।

तदत्रभवता स्वगृहनिर्विषेशं स्थीयताम्‌ । तच्छृत्वा मृगः सानन्दो भुत्वा स्वेच्छाहारं कृत्वा पानीयं पीत्वा जलासन्नतरुच्छायायामुपविष्टः । अथ मन्थरेणोक्तम्‌ सखे मृग ! एतस्मिन्निर्जने वने के न त्रासितोऽसि ? । कदाचित्किं व्याधाः संचरन्ति ? । मृगेणोक्तम्‌ अस्ति कलिन्ग विषये रुक्मान्गदो नाम नरपतिः । स च दिग्विजयव्यापारक्र मेणागत्य चन्द्रभागानदीतीरे समावासितक टको वर्तते । प्रातश्च तेनात्रागत्य कर्पूरसरः समीपे भवितव्यमिति व्याधानां मुखात्किं वदंती श्रूयते । तदत्रापि प्रातरवस्थानं भयहेतुक मित्यालोच्य यथावसरकार्यमारभ्यताम्‌ । तच्छृत्वा कूर्मः सभयमाह मित्र ! जलाशयान्तरं गच्छामि । काकमृगावप्युक्त वन्तौ एवमस्तु । ततो हिरण्यको विमृश्याह जलाशयान्तरे प्राप्ते मन्थरस्य कुशलम्‌ । स्थले गच्छतः कः प्रतीकारः? यतः

अंभांसि जलजन्तूनां दुर्गं दुर्गनिवासिनाम्‌ ।

स्वभूमिः श्वापदादीनां राज्ञां मन्त्री परं बलम्‌ ।।३३ ।।

तद्धितवचनमवधीर्य महता भयेन विमुग्ध इव तं जलाशयमुत्सृज्य मन्थरश्चलितः । तेऽपि हिरण्यकादयः स्नेहादनिष्टं शन्कमाना मन्थरमनुगच्छन्ति । ततः स्थले गच्छन्‌ के नापि व्याधेन काननं पर्यटता स मन्थरः प्राप्तः। स च तं गृहीत्वोत्थाप्य धनुषि बद्ध्‌वा भ्रमन्‌ क्लेशात्क्षुत्पिपासाकु लः स्वगृहाभिमुखं चलितः । अथ मृगवायसमूषिकाः परं विषादं गच्छन्तस्तमनुजग्मुः । ततो हिरण्यको विलपति

एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य ।

तावद्‌द्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुलीभवन्ति ।३४

किं च

मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः पात्रं यत्सुखदुःखयोः सह भवेन्मित्रेण तद्दुर्लभम्‌ ।

ये चान्ये सुहृदः समृद्धि समये द्रव्याभिलाषाकुला स्ते सर्वत्र मिलन्ति तत्वनिकषग्रावा तु तेषां विपत्‌ ।।३५ ।।

इति बहु विलप्य हिरण्यकश्चित्रान्गलघुपतनकावाह यावदयं व्याधो वनान्न निःसरति तावन्मन्थरं मोचयितुं यत्नः क्रियताम्‌। तावूचतुःसत्वरं कार्यमुच्यताम्‌ । हिरण्यको ब्रूते चित्रान्गो जलसमीपं गत्वा मृतमिवात्मानं निश्चेष्टं दर्शयतु । काकश्च तस्योपरि

No Comments to “हितोपदेशः प्रस्ताविका”

add a comment.

Leave a Reply

You must be logged in to post a comment.