गन्गालहरी५३

जगन्नाथः क विसार्वभौम एवासीत्‌ । तस्य काव्यस्यानुवादकरणं कष्टसाध्यं कर्म । सुधर्मायाम्‌ एतादृश कविकृतीनां परिचयः तेषां ग्रन्थेषु सामान्यजनानामभिरुचेरू त्पादनार्थमेव, व्याख्यानार्थं न । अनुवादस्य विस्तरणे स्थलावकाशो नैव । अल्पीक रणे अभिप्रायस्य क्रोढीकरणेन प्रमादश्च सहजः । अपि च पाठान्तरयुताः ग्रन्थाश्च बहवः । प्रतिपाठं मेधानुगुणं विवरीतुमपि शक्यते । तत्र विमर्शा अविचाररमणीया । तावती च विस्तुतिर्नास्माभिरपेक्षिते । उपलभ्यानि पुस्तकान्यादृत्यास्मभिः केवलं दिग्दर्शनं कृतम्‌ । यथा बुद्धिशक्ति अभिप्रायभेदाः, अर्थान्तरविवरणानि च साध्यन्ते । गन्गायाः स्तवनक र्मणि किं जगन्नाथः परिपूर्णः । “मतिक्षयान्निवर्तन्ते न गोविन्दगुणक्षयात्‌” इति वचनं वाचकैः कृपया स्मर्तव्यम्‌ । जगन्नाथः गन्गालहरीनामकं ग्रन्थं रचयितुमारभ्य तां पीयूषलहरीम्‌ अकार्षिष्ट । भुवि प्रवहन्ती गन्गा कविना जगन्नाथेन पीयूषसमाना कृता । पीयूषं म्रियमाणानां देवानां संरक्षणायैवोत्पन्नम्‌ । जीवातुनः । तस्य पानार्हता च भगवदनुग्रहपात्राणामेव । भगवदनुग्रहपात्रं नाम ऐहिकस्यामुष्मिकस्य च सुखानां निधिरिति किं पुनर्वक्त व्यम्‌ । जगन्माता गन्गा गन्गालहर्याः अनुवाद व्याजेनास्मनपि तस्याः करुणापात्रमक ार्षीत्‌ इति मोमुद्यते मनः । वाचकाः गुणदोषयुतेऽस्मिन्‌ साहसकर्मणि दोषाभविगणय्य गुणानेव आद्रियन्ताम्‌, जननी भागीरथी वाचके भ्यः सुखसम्पदः प्रददातु इति सादरमाशास्महे । इमां पीयषू लहरीं जगन्नाथने निमिर्ताम्‌ । यः पठत्तेस्य सवर्त्र जायन्ते सखु सम्पदः ।। कविः जगन्नाथः भगवतीं गन्गां स्वस्य पापाद्विमोचनं, शाश्वतं धाम च संप्रार्थ्य, जनेषु वाचके षु अभिरुचिं विश्वासं च वर्धयित्वा आशास्ते पाठकास्सर्वे सुखसम्पदः लभन्ताम्‌ । आनन्दसागरे मग्ना भवन्तु । कृ तिमेतां जगन्नाथ एवाक ार्षीत्‌ इति चोक्त्वा अन्यकृ तिभ्रमनिवारणपूर्वकं ग्रन्थमुपसंहरति । जगन्नाथेन क विना पीयूषलहरी कृता । कृ तो वरदराजेन ह्यनुवादो यथामति ।। संगृह्य क थने चास्याः दोषा नैवेति नैव हि । गृ†न्तु गुणमेवात्र मात्सर्यविमुखा बुधाः ।।

No Comments to “गन्गालहरी५३”

add a comment.

Leave a Reply

You must be logged in to post a comment.