हितोपदेशः प्रस्ताविका

भक्षितेनापि भवता नाहारो मम पुष्कलः ।

त्वयि जीवति जीवामि चित्रग्रीव इवानघ ।।२१ ।।

हिरण्यको ब्रूते चपलस्त्वम्‌ । चपलेन सह स्नेहः सर्वथा न कर्तव्यः। तथा चोक्तम्‌ ह्न

मार्जारो महिषो मेषः काकः कापुषस्तथा ।

विश्वासात्प्रभवन्त्येते विश्वासस्तत्र नोचितः ।।२२ ।।

किं चान्यत्‌, शत्रुपक्षो भवानस्माकम्‌ । उक्तं चैतत्‌

दुर्जनः परिहर्तव्यो विद्ययालंकृतोऽपि सन्‌ ।

मणिना भूषितः सर्पः कि मसौ न भयंकरः ।।२३ ।।

लघुपतनको ब्रूते श्रुतं मया सर्वम्‌ । तथापि मम चैतावान्‌ संकल्पः त्वया सह सौहृद्यमवश्यमेव करणीयमिति । नो चेदनाहारेणात्मानं व्यापादयिष्यामि। इत्यादि वचनमाकर्ण्य हिरण्यको बर्हिर्निःसृत्याह आप्यायितोऽहंभवतानेन। अनेन वचनक्रमेण तदेक मपि दूषणं त्वयि न लक्ष्यते । यतः

पटुत्वं सत्यवादित्वं क थायोगेन बुध्यते ।

अस्तब्धत्वमचापल्यं प्रत्यक्षेणावगम्यते ।।२४ ।।

तद्भवतु भवतोऽभिमतमेव । इत्युक्त्वा हिरण्यको मैत्र्यं विधाय भोजनविशेषैर्वायसं सन्तोष्य विवरं प्रविष्टः । वायसोऽपि स्वस्थानं गतः। ततः प्रभृति तयोरन्योन्याहारप्रदानेन कु शलप्रश्नैर्विश्रम्भाला पैश्च कालोऽतिवर्तते । एक दा लघुपतनको हिरण्यक माह सखे, क ष्टतरलभ्याहारमिदं स्थानं परित्यज्य स्थानान्तरं गन्तुमिच्छामि । हिरण्यको ब्रूते मित्र ! क्वगन्तव्यम्‌ ? वायसो ब्रूते अस्ति सुनिरू पितस्थानम्‌ । हिरण्यकोऽवदत्‌ किं तत्‌ ?। वायसो ब्रूतेअस्ति दण्डकारण्ये कर्पूरगौराभिधानं सरः तत्र चिरकालोपार्जितः प्रियसुहृन्मे मन्थराभिधानः । कूर्मः सहज धार्मिकः प्रतिवसति । स च भोजनविशेषैर्मां संवर्धयिष्यति । हिरण्यकोप्याहतत्कि मत्रावस्थाय मया कर्तव्यम्‌ ? यतः

यस्मिन्‌ देशे न संमानो न वृत्तिर्न च बान्धवः ।

न च विद्यागमः कश्चित्तं देशं परिवर्जयेत्‌ ।।२५ ।।

अतो मामापि तत्र नय । वायसोऽवदत्‌ एवमस्तु । अथ वायसस्तत्र तेन मित्रेण सह विचित्रक थालापैः सुखेन तस्य सरसः समीपं जगाम । ततो मन्थरो दूरादवलोक्य लघुपतनकस्य यथोचितमातिथ्यं विधाय मूषिक स्याप्यातिथ्यसत्कारं चकार । वायसोऽवदत्‌ सखे मन्थर ! सविशेषपूजामस्मै विधेहि । यतोऽयं पुण्यकर्माणां धुरीणः कारुण्यरत्नाक रो हिरण्यक नामा मूषिक राजः । एतस्य गुणस्तुतिं जिह्वासहस्रद्वयेनापि सर्पराजो न कदाचित्कथयितुं समर्थः स्यात्‌ इत्युक्त्वा चित्रग्रीवोपाख्यानं

No Comments to “हितोपदेशः प्रस्ताविका”

add a comment.

Leave a Reply

You must be logged in to post a comment.