गन्गालहरी५२

स्वस्य पूर्वजानामुद्धाराय महाप्रयासेन भगीरथेन परमेष्ठिपरमेश्वरयोरनुग्रहविशेषेण भुवं नीतायाः सुरलोक नद्याः, गन्गायाः महिमानं बहुधा विवृत्य क वितल्लजः जगन्नाथः स्तुतेर्निदानमुपसंहृत्य ब्रवीति । ग्रन्थं च परिसमापयति । सेनयोरुभयोर्मध्ये के शवेन स्थापितरथः पार्थः बान्धवानां हतिमनिच्छन्‌ युद्धमेव पर्यत्यजत्‌ । तस्मिन्‌ कर्मश्रद्धां विवर्धयितुमिच्छया पार्थसारथिः कृ ष्णः अष्टादशाध्यायात्मिकां गीताम्‌ उपादिशत्‌ । विश्वरू पं प्रादर्शयत्‌ । आत्मन्येव धार्तराष्ट्रान्‌ भीष्मद्रोणसूतपुत्रादीन्‌ सासुरान्‌ देवयक्षगन्धर्वादीन्‌ प्रादर्शयत्‌ । श्रेयान्‌ स्वधर्म इति व्यवृणोत्‌ । कर्मण्येवाधिकारस्ते इति असूचयत्‌ । सर्वधर्मान्‌ परित्यज्य मामेकं शरणं व्रजेति च स्पष्ट्यक रोत्‌ । तत एव स धर्मराजानुजः नष्टो महोः स्मतिर्लब्धा क रिष्ये वचनं तवेति प्रावोचन्ननु । एनां भगवद्गीतामपु सहृं त्यान्ते यथा सवर्म प्याहत्य “यत्र योगेश्वरः कृ ष्णो यत्र पार्थो धनुर्धरः । तत्र श्री विजयो भूतिः ध्रुवा नीतिर्मतिर्मम” । इत्युक्तं तथैव सर्वविधैः गन्गां वणर्फयन्‌ क विरेव ग्रन्थमुपसंहरति ।

विभूषितानन्गरिपूत्तमान्गा सद्यः कृतानेक जनार्तिभन्गा ।

मनोहरोत्तुन्ग चलत्तरन्गा गन्गा ममान्गान्यमलीक रोतु ।।

कामस्य रिपुः कैलासनाथः । सः मृडानीपतिः मन्मथं दग्ध्वा स्वयमेव अर्धनारीश्वरवपुरभवत्‌ । तथापि सावलेपां स्वर्धुनीं गन्गां शिरस्यधारयत्‌ । तथा भवस्यापि कि रीटप्राया गन्गा प्रपन्नान्‌ पुनीयात्‌ । सा गन्गा भगीरथेन बलाद्भुवमानीता अपि न विरराम । सगरपुत्राणां क ष्टनिवारणसमयमारभ्य असंख्याकानां पापिनां पापविमोचनेन तेभ्यः शाश्वतं धाम प्रापितवती । आर्ताः जना तामुपसृत्य मोधाशा इति नैव अदृष्टानां सत्फफ लानां प्रदानका चास्ताम्‌ । स्वयमेव सा गन्गा अतीवमनोहरा । उन्नतैः तरन्गैः पश्यतां चेतांसि उल्लासयति । चलतां चञ्चलानां तेषां तरन्गाणां दर्शनेन मनसः पुनः पुनः तस्य दर्शने कुतूहलम्‌ एधते एव । तादृशी भक्तानामार्तिविनाशिनीगन्गा जगन्नाथस्य मम इति निरू पणेन सांक ध्यायतामनुसन्धायिनां च सर्वेषां देहिनामन्गान्यमलीक रोतु ।

No Comments to “गन्गालहरी५२”

add a comment.

Leave a Reply

You must be logged in to post a comment.